रामचरितम् /203
This page has not been fully proofread.
विंशः सर्गः ।
ककुभामुवाच विचयं तमुच्चकैः शनकैः स्वमब्धिविजयं न्यवेदयत् ।
हृदयेशवाचिकशतानि तानि च प्रणयादचीकथदभिज्ञया समम् ॥ ११ ॥
प्रियनामचिह्नमवलोक्य लोचन स्रुतवारिधौतमलमङ्गुलीयकम् ।
प्रमिमील दर्घिमनघा महात्मनः प्लवगस्य तस्य परिचर्ययोदगात् ॥ १२ ॥
शिरसि न्यधादुरास दर्घिमादधे मुदमाप कण्ठमुपनीय कामपि ।
तदभीक्ष्णमीक्षणविचुम्बितं चिरादकरोत्क पोलतलयोस्तलोदरी ॥ १३ ॥
क गतोऽसि राम परिहाय मामितः स्मरसीव संप्रति न मामनागसम् ।
हृदयानि धिक् परिमृदूनि योषितां कठिनाय सत्पुरुषचेतसे नमः ॥ १४ ॥
कुरुतामियं किमथ नाथ मैथिली शिथिलं कुलायमसंवस्त्यजन्त्यमी ।
शरसंक्रमं घटय शीघ्रमम्बुधौ यदि मां निनीषसि निशाचरालयात् ॥ १५ ॥
प्लवगेश किं प्रभुसुहृत्तमः स वो विशिखैर्वितत्य न पयोधिमागतः ।
किमिमां न वेत्ति नगरमिसृग्भुजः श्रुतवानितो नयति मामनन्तरम् ॥ १६ ॥
वद वीर सन्दिशति किं रघूहः स च तस्य किं वदति लक्ष्मणोऽनुजः ।
कपयः क्षपाचरसमीकसत्वराः कति वारिधिं त्वमिव जेतुमीशते ॥ १७ ॥
कति मन्त्रिणः कति रहस्यरक्षिणः कति शिल्पिनः कति च विक्रमोद्धुराः ।
कति कूटयुद्धजयिनः कति त्वया समरंहसव रघुनाथसैनिकाः ॥ १८ ॥
किमनेन कायविभवेन वारिधिर्विजितस्त्वयाऽथ परिवर्तितं वपुः ।
अणिमादयस्तव कथं महागुणाः कतमस्य रामतपसः फलं भवान् ॥ १९ ॥
न जहामि देहमवशाऽपि संप्रति त्वदुपागमादधिगतावलम्बना ।
कियतश्चिरात्कथय सत्यमानिले नलिनाननौ नृपसताविहैष्यतः ॥ २० ॥
त्रिजटेति राक्षसपतेरियं स्वसा मम सत्सखीव निरुणद्धि साहसम् ।
हनुमन्नहापि सुकृती विभीषणस्त्वमिवार्यपुत्रचरितं प्रशंसति ॥ २१ ॥
त्वमिहैव दीर्घमवनीरुहि स्थितः श्रुतवानसिमलपितानि रक्षसः ।
तदलब्धघोरविरहज्वरावधेर्मम धैर्यमार्य तरलं त्वयेक्षितम् ॥ २२ ॥
इयमभ्युपैति परितः परिक्षयं न तथा वियोगदहनेन जानकी ।
हनुमन्नुदग्रयशसो यथेशितुः पिशिताशलंघनकलङ्कमन्युना ॥ २३ ॥