This page has not been fully proofread.

एकोनविंशः सर्गः ।
 
इति परुषमुदीर्य राजपुत्री मरणवितीर्णमनाः पपात भूमौ ।
त्रिभुवनरिपुंरुज्जगाम पीठात् झटिति विमोचितचन्द्रहासकोशः ॥ ९५ ॥
 
कृतकुलिशकठोरमुष्टिबन्धः कपिरुपकण्ठमियाय शिंशपाग्रात् ।
नियातयमितसाहसो दशास्यः परमसिमुद्यमयाञ्चकार दूरात् ॥ ९६ ॥
अलमलमसेर्नैषा भूमिर्वशे भुवनप्रभोः तव कतिपयैरेवाहोभिर्भविष्यति मानुषी ।
इति निगदितः स्त्रीभिःस्वाभिर्जगाम यथागतं कपिरपि तरौ तत्रैघासीत्तथैव तिरोहितः॥ ९७ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सीतारावणसंवादो नाम
एकोनविंशः सर्गः समाप्तः ॥
 
१६९
 
१. D पति ।
 
२२