रामचरितम् /199
This page has not been fully proofread.
एकोनविंशः सर्गः ।
१६७
यन्नास्ति धाम्नि धनदस्य न वासवस्य नार्चिष्मतो न वरुणस्य न मारुतस्य ।
किं भूयसा पशुपतेरपि दुर्लभं यत् तल्लभ्यते सुमुखि मद्भवनाङ्गणेषु ॥ ७२ ॥
पक्षः सितः सुमुखि गच्छति नेह निष्ठां मासो मधुर्निगडितोऽस्ति वनस्थलीषु ।
एतां च नक्तमपि रक्तसरोजराजिं बाले न वालरविदीधितयस्त्यजन्ति ॥ ७३ ॥
चक्रीन' पीडयति पङ्कजिनीने वघ्नात्यन्तभित न मृगं मृगशाबकाक्षि ।
अत्रास्तमृच्छति न जातु मम प्रभावात् पर्वण्यपर्वणि च शीतरुचिः समग्रः ॥७४॥
ब्रूहि प्रकाममभितः किमुपाहरामि किं वा सृजामि विसृजामि किमग्रतस्ते ।
एकस्य खण्डपरशोर्मम चापरस्य महो नियोगमनुधावति भूतसङ्घः ॥ ७५ ॥
त्वामर्चयन्तु चतुरन्तककुप्पतीनामेताः स्त्रियः सुतनुं मद्भुजवीर्यकृष्टाः ।
संसक्तराक्षसचमूडमरोत्प्लुताक्ष्याः शच्या ः प्रभुत्वमवहासहतं कुरुष्व ॥ ७६ ॥
मुञ्च क्षमातलमिदं मणिमञ्चकेषु स्तीर्णोत्तरच्छदशतेषु सुखं शयीथाः ।
एतासु वा समभिरोचय चन्द्रशालास्वत्रापि तत्त्यजै नितम्बिनि वृक्षमूलम् ॥ ७७ ॥
एतेषु हेमरजतस्फटिकाश्मगर्भवैडूर्यविद्रुममयेषु निवेशनेषु ।
मात्रा महेन्द्रजयिनः परिचर्यमाणा मोदस्व मानुषवधूजनदुर्लभेषु ॥ ७८ ॥
अध्यास्व सौधवलभी निबिडस्तनीमा मुष्णन्तु जालमरुतः सुरतश्रमं ते ।
यद्वाऽधिरोह माणिहर्म्यमिदं मदीयमालब्धुमिच्छसि करेण यदीन्दुविम्बम् ॥ ७९ ॥
एतासु मे विकटवज्रशिलानिबद्धकूलासु रुक्मकदलीवनमालिकासुँ ।
वापीषु पीनजघने रमतामितस्ते सोपान सुप्तमाणपत्ररथासु चेतः ॥ ८० ॥
वेणीं विमुञ्चतुं किमङ्कजुषस्तवाद्य किं वा धुनातु शयनीयतलस्य धूलिम् ।
'वित्रन्धमादिश भुजिष्य इव प्रपन्नः पौलस्त्य एष विपुलस्तनि किं करोतु ॥८१ ॥
अद्यापि चिन्तयसि किं तमभव्यमेव निर्मन्दिरः स गिरिकन्दरकाननेषु ।
दीर्घं विचित्यै भवतीमनवेक्षमाणो दिग्धार्तरोहित इवास्तमितस्तपस्वी ॥ ८२ ॥
तं वर्तमानमपि कल्पय वृत्तमेव कच्चित्पुरीयमभितः सुभगे सुदृष्टा ।
अत्रास्ति शक्तिरनुजैकसखस्य तस्यै जित्वाऽर्णवं मम समीपमभिप्रयातुम् ॥ ८३ ॥
१. A कंन । २. BC स्तरुणि । ३. A तत्तव । B C नव । ४. BCD हो । ५. B रत्न । ६. A
ममायै । ७. A हेम । ८ ACDEनां । ९. B रोद्ध । EC राद्धु । १०. BC नीषु । ११ A स्याः ।
१२. AB तुलां प्रसन्नः । १३. ABC चेष्टय । १४. A तिरोहिष । १५. D जेतुम् ।