रामचरितम् /197
This page has not been fully proofread.
एकोनविंशः सर्गः ।
लुप्तामिवाघततिभिः सुरयानवीथीं क्रान्तां शिरःस्रजमिवाङ्घ्रिरजःकणाभिः ।
तत्रागैतः परिगतां रजनीचरीभिः नारीं निरायतविपद्विधुरां ददर्श ॥ ४८ ॥
देहे दृशोर्दशनवाससि पाणिंयुग्मे चूडामणौ चरणपद्मतले च तस्याः ।
सर्वाण्यभीक्ष्णगुणितानि स तान्यपश्यदिक्ष्वाकुनाथकथितानि च लक्षणानि॥४९॥
मूर्छान्तरोद्धुरविलोचनवारिपूरां पारं दुराधिजनितस्य गतान्तनिम्नः ।
तां सोऽवलम्बितसमीपतरैकशाखः सीतेयमित्यकथितामपि निश्चिकाय ॥ ५० ॥
C
स्थानेऽवसीदैसि रघूद्रह धिग्विधातरस्यास्त्वयेक्षितमलक्षणमङ्गकेषु ।
अद्यापि जीवसि दशानन हे हनुमन् केंयं तवाभिमुखवर्तिरिपोः प्रतीक्षा ॥ ५१ ॥
देवि क्षमस्व दिवसानयमेति रामः पश्याचिरात्पुरमिमां कपिभिः परीताम् ।
क्वासौ जगत्रयजयी रजनीचरेन्द्रः कुत्रेन्द्रजित्तव जितं पतिदेवराभ्याम् ॥ ५२ ॥
इत्यूचिवान्निभृतमेव स वातसूनुः गत्वा तयाऽध्युषितमूलमहीतलायाम् ।
भेजेऽग्निमन्थाशेखरादथ शिशपायाः स्कन्धान्तरं विनयबन्धुरितेन मूर्ध्ना ॥ ५३ ॥
अत्रान्तरे मदनवातविधूतनिद्रः स द्रावृतान्यरचनो रजनीचरेन्द्रः ।
दिव्याङ्गनाशतगृहीतमणिप्रदीपः प्रापत्तमेवें मदलोलपदः प्रदेशम् ॥ ५४ ॥
रेजे स राक्षसपतिस्तपनीयवद्धैः दोषु त्विषः शिरसि चाश्मभिरुत्किरद्भिः ।
सानुष्वनुक्षणसमुल्लसदोषधीकं न्यक्कृत्य नक्तमचलाधिपतिं सुवेलम् ॥ ५५ ॥
आशाः सुदूरमभवन्नधिवासभाजो निर्हारिणा परिमलेन विलेपनानाम् ।
आसीन्नभः स्फुरितशऋधनुस्सहस्रं तस्याभितश्छुरितमाभरणप्रभाभिः ॥ ५६ ॥
दीर्धाक्षमुन्नसमरालशिरोरुहाग्रं बिम्बाधरोष्टमवहन्मुखमेकमेव ।
द्वावेव तत्क्षणमभीषणवेषधारी भेजे भुजौ मनुजलोकपुरन्ध्रिसात्म्यौ ॥ ५७ ॥
सान्द्राः स्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः ।
संचिक्लिशे तुलितरुद्रनिकेतनाद्रि : भारेण तत्क्षणमसौ मणिभूषणानाम् ॥ ५८ ॥
कान्त्या परप्रहरदक्षमसौ तदानीं कन्दर्पमिन्दुसखमिन्दुमुखो जिगाय ।
सीतानुबन्धविषमज्वर वेगयोगादुद्धूसराच्छहरिचन्दनपङ्कलेपः ॥ ५९ ॥
१. A त्रैक । २. A वस्त्र D हस्त ३. B विषी । ४. A किं वि । ५. BC D । ६. BCD मीक्षति
तत्प्रतीक्ष । ७. BC D तस्त