This page has not been fully proofread.

१६४
 
सीतारावणसंवादो नाम
 
सार्वर्तुकस्तबकशालितरुमवेकं सर्वाभिरामरुतपण्डित पत्रिजातम् ।
सर्वस्वभूतमथ तद्दशकन्धरस्य दूरादशोकवनमैक्षत गान्धवाहिः ॥ ३६ ॥
देवस्य दाशरथितां भजतः समीपं पादान्तिकं भगवतो मृगवाहनस्य ।
अध्यास्य चाङ्कमनघं न तथाऽञ्जनायाः प्राभञ्जनिस्तदवलोक्य यथा जहर्ष ॥३७॥
लिङ्गं न किञ्चिदभिकाङ्क्षितवस्तुसिद्ध्यै शुद्धाशयः कलयति स्म कपिप्रवीरः ।
निस्संशयं निवसतीह नृपात्मजेति तस्य प्रसन्नमनसः प्रतिभा तु जज्ञे ॥ ३८ ॥
शाखासु पर्वसु दलेषु दलान्तरेषु स्कन्धेषु चेक्षितुमधः प्रहिताक्षिपातः ।
तत्रेतरप्लवगगन्धकपिभ्रमेण बभ्राम स प्रतिमहीरुहमप्रमत्तः ॥ ३९ ॥
ग्रस्तामिव त्विषमयोगमलच्छटाभिः श्लिष्टामिव श्रियमकार्यरसत्वराभिः ।
व्याप्तां विपद्भिरभिजातिमिवोंदरेण क्रोडीकृतां मुदमिवाधिपरम्पराभिः ॥ ४० ॥
अद्भिः सुधां व्यवहितामित्र लावणीभिः मृद्भिश्चितामिव विदूरशिलाशलाकाम् ।
पुण्याग्निदीधितिमित्र स्थगितां समिद्भिरिन्दोः कलामुपँहितामिव कालिकाभिः॥४१ ॥
'हेमाब्जिनीं वलयितामित्र यामिनीभिः छन्नामजन्यमँहिकाभिरिवार्कभासम् ।
धूलीभिरन्तरितशुद्धगुंणामित्र द्यां विद्यां विकल्पपटलीभिरित्राचुँविद्धाम् ॥ ४२ ॥
कीर्णामवर्णकणिकाभिरिव प्रसिद्धिं मायाभिरन्वयविशुद्धिमिवोपगूढाम् ।
लीढामिवोच्छ्रसितवृत्तिमनित्यताभिः नीतामिवान्तमनवस्थितिभिः प्रतिष्ठाम् ॥४३॥
निर्भर्त्सनाभिरिव सत्कृतिमात्तैकेशीं मैत्रीमिवाधिगतसन्धिमपक्रियाभिः ।
"ग्रस्तां" कथामिव कुपण्डितचोदनाभिः संभूय रुग्भिरिव रुद्ररुचं चिकित्साम् ॥४४॥
छिन्नामिव श्रुतिमपस्मृतिसंहिताभिरुङ्घितामिव कुयुक्तिभिरुक्तिमार्षीम् ।
श्रद्धामिव प्रतिह्तामपसंस्क्रियाभिरुन्मूलितां धृतिमिवोत्कलिकावलीभिः ॥ ४५ ॥
छायामिवोष्णलहरीभिरुपप्लुतां तामन्तर्हितां दवाशखाभिरिव द्रुमालिम् ।
इच्छामसिद्धिभिरिव प्रतिरुद्धवेगां प्राबुद्धिभिर्धियमिवाधरितां प्रतीचीम् ॥ ४६ ॥
ग्राहीभिरागलमिभीमिव रुद्धैचेष्टां श्रीखण्डयष्टिमुरगीभिरिवोपजुष्टाम् ।
व्याघ्रीभिरेणगृहिणीमिव रुद्धमार्गी लोहार्गलाभिरिव सिंहवधूं सुगुप्ताम् ॥ ४७ ॥
 
१. A भीम वद २. BCD ध्व । ३. Aत्तिन ४. CD त । ५. C वो । ६. BCDE मषीभिः । ७. A
मपि । ८. BC सन्तापजन्यम । A छन्नामनल्पमि । ९. B सिद्धग १०. A नवद्याम् । CDE वनद्धां ।
११,BCD व ! १२,BC ग्राहां १३. BC छ । १४. D र्दिशमिवाच । १५. A दत्तवे । १६. B एलान C एकाङ्क्ष
 
"