This page has not been fully proofread.

१६०
 
सीतारावणसंवादो नाम
 
समादधे काश्चिमकुञ्चयत्कचान् कुचावैसिञ्चन्मलयोद्भवाम्भसा ।
लिलेख सान्द्रव्रणयोर्विशेषकं कपोलयोर्बालकुरङ्गचक्षुषाम् ॥ ८५ ॥
अशाययत्कामपि दोष्षु दुर्लभां स वल्लभां वक्षसि कामपि व्यधात् ।
पुनः पुनश्चुम्बितपाणिपल्लवामरोपयत्कामपि कण्ठकानने ॥ ८६ ॥
व्यलोकयत्कामपि कर्कशस्तनीमभाषयत्कामपि कोमलस्वराम् ।
त्रपावतीं कामपि पर्यहासयन्त्र्यवेशयत्कामपि सत्वरोत्थिताम् ॥ ८७ ॥
कयाऽप्युपालभ्यत मन्युगद्गदं कयाप्यसूयाकुटिलं व्यलोक्यत ।
कृतापराधोऽपि कयाप्यमृष्यत स्फुटं कयापि प्रणयादण्यत ॥ ८८ ॥
चकार कस्यामपि चाटुमुत्तमं जगाद कस्यामपि कैतवं बहु ।
ममार्ज कस्यामपि पूर्वखण्डनां ततान कस्यामपि मण्डनान्तरम् ॥ ८९ ॥
अयाचतैकामधरोष्ठपल्लवं निनाय वक्षःस्थलमात्मनोऽपराम् ।
अभीक्ष्णमन्यां कुचयोरयोजयन्निमीलिताक्षी नखमार्गराजिभिः ॥ ९० ॥
 
करी करेणुष्विव सल्लकीवने गवां पतिगोष्विव गोष्ठचत्वरे ।
शशीव तारासु तदा नभोङ्गणे विमानपृष्ठे स बभौ पुरन्धिषु ॥ ९१ ॥
मघवति परदारश्रद्धयेव प्रदीर्घामधवति मधुगोष्ठीं तन्वतीत्थं दशास्ये ।
रजनिचरसहस्रैरुत्सवः पानशौण्डैरजाने चरति नीचैरात्मजे मारुतस्य ॥ ९२ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये दशाननापार्नेकेलि-
वर्णनो नामाष्टादशः सर्गः समाप्तः ॥
 
आचन्द्रसूर्य निदधे जगत्सु व्यासस्य यद्वज्जनमेजयेन ।
एषोऽभिनन्दस्य महाप्रबन्धः क्षोणीभुजा भीमपराक्रमेण ॥
तस्यैकस्य निकामदानरभसप्रोल्लासिनः शोभते
 
श्लाघ्ये वस्तुनि यत्र तत्र पृथिवीपालस्य कौतूहलम् ।
रुद्धाः सर्वदिशो मनोरथपथातीतर्द्धिभिः पुस्तकैः
 
सत्काव्याभिरतेन रामचरितं येन प्रतिष्ठापितम् ॥
 
१. D न्नुवाच २. A मञ्जुभाषिणीं । ३. BC कांपुन ४. A दस्यै ५. D प्रदोषचन्द्रोदयमदपानसु
रतक्रीडा । ६. A only reads this ।