रामचरितम् /191
This page has not been fully proofread.
१५९
अष्टादशः सर्गः ।
कयापि सार्धं विधृते ससंभ्रमं कयापि कर्पूरिणि रत्नभाजने ।
पपौ प्रशंसातरलैः स मौलिभिः कयापि चास्वादितपूर्वमासवम् ॥ ७२ ॥
इदं तदक्ष्णां द्युतिचोरमुत्पलं व वा युवत्यः स मुखोपमास्पदम् ।
शशीति पप्रच्छ मदोष्मविहलो विलोकमानचषकं च्युतासवम् ॥ ७३ ॥
तमाशु चन्द्रं चषक प्रयच्छ मे तवोत्पल क्रोडमिदं विदार्यताम् ।
ध्रुवं स पीतः सह शीधुनाऽथवा मयेति मत्तः मललाप रावणः ॥ ७४ ॥
किमिन्दुनेन्दीवरमप्रयोजनं मुखेषु नेत्रेषु च सत्सु वः प्रियाः ।
इति ब्रवीति स्म विलोकयन्नसौ मसारपारीषु निवेशितं मधु ॥ ७५ ॥
निशापतेरात्मवधूमुखस्य च द्वयोः सकम्पं चषके चकासतोः ।
चिरात्करिष्यन्निव नीचनिग्रहं दशाननः संविदधे निरूपणम् ॥ ७६ ॥
स पानमध्ये मणिमर्दलानकध्वनिष्वनुत्तालतरङ्गचारुषु ।
ददर्श नित्यं निजवारयोषितामपूर्वलीलाळयरीतिरेचकम् ॥ ७७ ॥
ममार्ज मत्तः स्वयमेव पुष्करं जगौ स्वयं गद्दकण्ठसंहतिः ।
अदर्शयत्पाणिभिरक्रमेण च स्वयं स्वहस्ताभिनयान् पुरन्धिषु ॥ ७८ ॥
अमन्यतेन्दुं निपतन्तमम्बरान्महीं भ्रमन्तीमिव रोद्धुमुद्ययौ ।
ततार मध्ये तरुणीकदम्बकं स पुष्पकस्योपरि कौमुदीनदीः ॥ ७९ ॥
तमूहुरङ्गैरलसैर्निजाङ्गनाः तरङ्गवातास्तमपामवीजयन् ।
अपश्यदुत्थाय मनोरथस्थितामितस्ततः शून्यमनाः स मैथिलीम् ॥ ८० ॥
प्रसीद मन्दोदरि चन्द्रमानय प्रियस्य तापः प्रवलोऽयमद्य ते ।
इति प्रमीलापगमेषु दारुणं जगाद भूयः स मनोभवज्वरम् ॥ ८१ ॥
पुनः प्रसन्नां पुनरातपं विधोः पुनः स मुक्ताफलदामसंहतिम् ।
पुनः प्रसूनं मलयोद्भवं पुनः पुनः सिषेवे मृगशावलोचनाः ॥ ८२ ॥
तदङ्गनाचक्रमनङ्गलालसं मुखानि तस्यैकमहाविलासिनः ।
पौ प्रसूनि मधुव्रतीकुलं मधोरिवादौ नवचूतशाखिनः ॥ ८३ ॥
क्षताधरं सम्रणमेखलातलं घनार्धचन्द्रोच्छुसितोन्नतस्तनम् ।
उपाचरत्तुल्यमसौ सवेदनं रतान्तचर्यानिपुणः प्रियाशतम् ॥ ८४ ॥
१. BC वहते २. BC सन्ना ३. BC पदं । ४. BC ताचि