रामचरितम् /190
This page has not been fully proofread.
१५८
दशाननापानकेलिवर्णनो नाम
इति प्रहस्तानुचरस्य
कस्यचित्प्रकाशितोद्दामदशाननश्रियः ।
चराचरैः शुश्रुविरे भयागतैः गिरः प्रदोषोत्सवघोषणोद्धुराः ॥६०॥ कुलकम् ॥
मसारगल्वर्कमयेषु मूलतस्ततेषु तैस्तैश्चषकेषु किङ्करैः ।
दशाननाज्ञाचकिताः प्रचक्षुरुर्मधूनि कल्पोपपदा महीरुहः ॥ ६१ ॥
परीत्य चिन्तामणयोऽथ रावणं सुपर्वरूप्यां: सुषुवुः सुराम्बुधीन् ।
वितेनुरुच्चैरुपदंशपर्वतान् स्वसात्कृतास्तापसहोमधेनवः ॥ ६२ ॥
परीयुरन्येऽप्यभिरामचाटवश्चराचराणामधिदेवतागणाः ।
निजक्षणांतिक्रमदण्डशङ्किनः स्मृतेः पुरस्तादिव राक्षसेश्वरम् ॥ ६३ ॥
सुराङ्गनाः सादरमभ्यभाषत व्यलोकत प्रश्रयवानिवासुरीः ।
दधेऽनुकम्पां मुनिकन्यकाजनैः निशाचरीर्निर्दयमालिलिङ्गः सः ॥ ६४ ॥
स यक्षरक्षःसुरसिद्धयोषितां वपुष्षु विश्वासविमुक्तनीविषु ।
व्यनोदयद्विश्लथकाञ्चिदामस स्मरज्वरा कल्पकवेगवेदनाम् ॥ ६५ ॥
निपीय वक्ताणि सुपर्वयोषितां पपात पातालवधूमुखालिषु ।
समेत्य जघ्ने जगतीपुरन्ध्रिभिः स निर्मुखैः पङ्किमुखः पयोधरैः ॥ ६६ ॥
अचुम्बदेकेन वधूमुखं बलादपश्यदन्येन मृगाङ्कमण्डलम् ।
जगौ स गाथामपरेण मान्मथीं मधूनि वक्त्रेरितरैरशीलयत् ॥ ६७ ॥
निजादभैषीत् क्षणदाचरीगणान्न पश्यतः पार्श्वत एव साहसी ।
मुखैः प्रसन्नामपिवद्विभीषिकावशीकृतानां यदमर्त्ययोषिताम् ॥ ६८ ॥
ततान मुग्धासु विदग्धमानसो न मोहनाङ्गानि सुराङ्गनास सः ।
मनोरथानां निजमत्तकाशिनीष्वगच्छदन्तं जगदन्तलालसः ॥ ६९ ॥
पुनः स सस्मार विदेहभूपतेः सुतां सतीत्वग्रहदुर्लभागमाम् ।
अवीक्षमाणस्तदवाप्तिकारणं जगाम योषित्सु मुहूर्तशून्यताम् ॥ ७० ॥
अरक्षदांकारमलक्षितेङ्गितः प्रियासु तासु प्रणयं ततान सः ।
न वञ्चयन्ति स्वमुपेतसंपद: सुदुर्लभप्रार्थनया विचक्षणाः ॥ ७१ ॥
१. BC ढ्या । २. A का ३. BC मा ४. BCD वे ५. BCDE लक्षिता.