This page has not been fully proofread.

अष्टादशः सर्गः ।
 
समानय द्वन्द्वमिदं पतत्रिणोर्न रावणः पश्यात वैशसं निशि ।
दिशन्तु वापीकुमुदेषु चोत्सवं सरोजसाधारणमिन्दुरश्मयः ॥ ४८ ॥
तमस्स्वगौधेष्विव चन्द्रमःकरोः कथं न कृष्णागरुधूपसिन्धुषु ।
अमी निमज्जन्तु सितालयाः क्षणं बहिर्विसतुङ्गवीचिषु ॥ ४९ ॥
सह प्रगाढप्रणयैः प्रशंसति प्रदोषलक्ष्मी क्षणदाचरेश्वरः ।
जितं भवद्भिः सुरसिद्धचारणाः प्रविश्यतां प्रस्तुतकौमुदीमहः ॥ ५० ॥
क्व दुग्धसिन्धुः क्व च तस्य वीचयः प्रविश्यतां द्वारमिदं सराङ्गनाः ।
गृणीत भो: सूर्यरथादनन्तरं कदापि वो दृष्टचरी न चन्द्रिका ॥ ५१ ॥
करोतु कृत्यं मणिदीपशाखिनां गिरिः सुवेलः स्फुरदोषधीगणः ।
तनोतु सान्द्रैर्निजवारिविन्दुभिर्वितानमम्भोनिधिरम्वरोदरे ॥ ५२
प्रविश्यतां पाणविकाः फणाभृतः स्मृताः स्थ वीणानिपुणा नभस्सदः ।
तवैष तण्डो समय: स्वताण्डवं प्रणेतुमुद्रायति नारदोऽग्रतः ॥ ५३ ॥
क्षण: कलानामयमेव नर्तकाः क्व ते निविष्टा भरतान्तवासिनः ।
पृथुस्तनीं चित्ररथश्व कामपि स्वलास्यशिष्यामुपहृत्य मोदताम् ॥ ५४ ॥
 
१५७
 
कथावशः" किं समयं हरत्यसौ हठोपनीतः सुरनर्तकीजनः ।
सचास्तयत्नोऽभिनयेषु कोहल: क्षपाचरेन्द्रः स्खलितं न मृष्यति ॥ ५५ ॥
स संप्रति स्वातिर्रपाणिवेपथुस्तथोपधत्तां मुरजेषु मार्जनाम् ।
यथाऽम्बुभृद्धन्धुकुलं दिदृक्षया तनोति नेत्रैरिव चन्द्रकैर्दिशः ॥ ५६ ॥
स्मरागमान्वाचयतु स्वयं पुरः स्वरेण सौम्य श्रुतिना सरस्वती ।
घनप्रयोगं सुरवन्दिसूनवः पठन्तु पौलस्त्यभुजार्जितं यशः ॥ ५७ ॥
इतस्तृषं संजनयन्तु शीलनांन्नवां नवामासवनिम्नगाचयाः ।
इतश्च सन्तानी॑कंपुष्पसंस्तरः स्मरव्ययानन्तरमेव तन्यताम् । ५८ ॥
 
इमेन रोहन्त्विह वल्लिपल्लवा: स्फुरन्त्वमी मारकता मरीचयः ॥
किमुत्सुकाः सर्पत सर्पयोषितो निषीदतेदं भुवनं न वासुकेः ॥ ५९ ॥
 
१. A स्सगन्धे । २. A रान् ३. A षत्सु ४ BD हुत C द्वन । ५. A हृताः स्थ । ६. A
 
दीप्यं ७. A कशाः कशा: ८ Aभि ९. A तला १०. B C श्वसन्ना ११. CB न्त्यहि