This page has not been fully proofread.

१५६
 
दशाननापानकेलिवर्णनो नाम
 
अपि क्षपायामभिलङ्कमुच्चकैः कुतोऽन्धकारः परितो मणिप्रभाः ।
पिपेष पिष्टं पुनरस्रभुग्भयान्निषेदुषी वेश्मसु बालकौमुदी ॥ ३६ ॥
बभ्रुर्विदूरादजिरेषु रेजिरे चिरं निषेदुर्निकटेषु वेश्मनाम् ।
ययुः क्रमाद्दीधितिपल्लवा विधोः वधूविलासप्रतिकर्मसाक्षिताम् ॥ ३७ ॥
नखेष्वमूर्छन् कुचयोश्चकाशिरे कपोलयोः पल्लविता इवाभवन् ।
स्मितेषु तेनु॑र्मृगशाबचक्षुषां निशापतेः कामपि कान्तिमंशवः ॥ ३८ ॥
सखि स्वसः स्वामिनि पुत्रि पाहि नः किमुज्झसीमां जननीमे॑वत्सले ।
इति प्रवृद्धिं शशिना सहागमन्वियोगिनीवेश्मसु कातरा गिरः ॥ ३९ ॥
 
तथा सुधौतं वरयोषितां मनः सुधांशुना मानकषायरूषितम् ।
प्रियेषु तेष्वेव विनाऽनुनाथनैर्यथा पुनद्रगतिरागमग्रहीत् ॥ ४० ॥
प्रसीदतासीदत चन्द्रिकातपे चिरं मिथः संस्तुत शीधु सोत्पलम् ।
इति क्षपानाथनिदेशनादिव प्रियापराधान प्रमदा विसस्मरुः ॥ ४१ ॥
न चन्दनं चन्द्रमरीचयो न ते न चन्द्रविम्बप्रतिमोज्ज्वलं मधु ।
मनोऽबलानामहरन् विना प्रियर्न चन्द्रकान्तोपलचत्वराणि च ॥ ४२ ॥
 
चिरं तदाऽध्यास्त मनोभवज्वराद्विमानपृष्टं रजनीचरेश्वरः ।
मैंधूनि चन्द्रातपसङ्गशीतलान्यजस्रशोषैरनुशीलयन्मुखैः ॥ ४३ ॥
"मधु क्षरेति द्विजराजमब्रवीन्मुखैर नङ्गश्वर धूसराधरैः ।
विचेतुमुच्चैरुपदंशकारणादियेष ताराः श्लथकङ्कणैः करैः ॥ ४४ ॥
 
मुखैरतुष्यन्न तदात्मयोषितामियाय तृप्तिं न च शीतरोचिषा ।
विचिन्तयामास विरूढवेपथुः स मैथिलीवक्रसरोरुहश्रियम् ॥ ४५ ॥
अयं विशायः सुरसिद्धयोषितां निशाचरीणां निभृतोऽस्तु संचरः ।
उपेत्य जोषं त्रिजटाऽनुयुज्यतां किमाह सा संप्रति मुग्धमानुषी । ४६ ॥
वनानि पुष्पं सलिलानि मौक्तिकं विविक्तकण्ठाः क्वणितं पतत्रिणः ।
तवाधुनोचैर्मलयाचलस्थली द्रुमद्रवणं प्रवर्ततम् ॥ ४७ ॥
 
१. A भेजु २. A ता ३. B C स्कृ । ४. BCव. ५. B C द्रुमद्रवद्रस । ६. Aर्ति