This page has not been fully proofread.

६५४
 
दशाननापानकेलिवर्णनो नाम
 
शनैरनेहःकरपत्रभिन्नयोर्मिथः पृथक्त्रस्तमृणालभङ्गयोः ।
विहङ्गयोः सङ्गमदत्तनीरयोर्भवान्तरप्रायमभूद्दिनान्तरम् ॥ १२ ॥
असृनदीसंनिभसन्ध्यमुल्लसत्तमः कचश्रेणि घनोडुकीकसम् ।
विचेतुमी रभसान्निशाचरैः समाप्तसङ्ग्राममिवाम्बराङ्गणम् ॥ १३ ॥
ययौ लयं मूर्ध्यपरस्य भूभृतः सुवेलसानौ हनुमानिवांशुमान् ।
ततस्तिरस्कारमलम्बयद्दिशो दशाननच्छन्दमिवो दुरं तमः ॥ १४ ॥
क्वचित् किरातीकचपाशमेचकं क्वचिच्च कक्षानलधूमधूसरम् ।
क्वचित्तमालद्रुमखण्डसंनिभं नमोऽग्रहीत्क्वाप्युपमातिगं तमः ॥ १५ ॥
 
न पेतुरल्पेषु न भेजुरन्तरं विदूरवस्तुग्रहणोद्यमं जहुः ।
क्रमेण घोणाग्रमपि स्वगोलकान्न चक्षुषामक्षितुमैशतांशवः ॥ १६ ॥
क्वचित्प्रसूतं क्वचिदाप्तयौवनं क्वचित्प्रवृद्धं क्वचिदुद्धुरं तमः ।
क्वचित्प्रहृष्टेष्टजनीशतशिषां कथंचिदासीदविशेषभाजनम् ॥ १७ ॥
अतीत्य नक्तंचरतस्करावलीं पुनर्दिनेशाय समर्प यिष्यता ।
जगद्विशेषप्रचयः प्रर्थायसि न्यधायि कालेन तमोनिचोलके ॥ १८ ॥
 
कुलाङ्गनाः सेदुरुपोढसाध्वसाः तदा सदीपेष्वपि धामसु ध्रुवम् ।
जगाम संकेतभुवस्तमस्वतीरदृष्ट लोकद्वितयोऽसंतीजनः ॥ १९ ॥
कयापि लब्धं जनसंनिधौ रहः कयापि निष्क्रान्तमभव्यया
सुखम् ।
कयापि तत्पूर्वमचुम्बि संभ्रमादुपस्थितो जारधियाऽऽत्मनः पतिः ॥ २० ॥
 
जनं न पप्रच्छ निषेधपण्डितं प्रमाणमिच्छामकरोत्प्रमादिनी ।
विमार्गपातत्वरया तमश्चयं विवेश सूचीमुखदुर्लभान्तरम् ॥ २१ ॥
तमःसवर्ण विदधे विभूषणं निनाददोषेण नुनोद नूपुरम् ।
प्रतीक्षितुं न स्फुटचन्द्रिकाभयादियेष दूतीमभिसारिकाजनः ॥ २२ ॥
अपि प्रियालोकनलोलयाऽन्यया निजौकसि ज्येष्ठभुजङ्गदुर्भगाः ।
तमिस्रसन्तोषदरिद्रया धगित्यभीशवः प्रोद्गमिता निशापतेः ॥ २३ ॥
 
१. A B थाहःकरपात । २. B C D टे । ३. A मिवावरं । B C चरत्त । ४. A मण्डितं । ५. A
षांचुम्बितु ६. A दीपेष्वसतीजना । ७. Aव । ८. BCर्थ । ९ B C यस्स । १०. D नन्य । ११. A नमार्ग,