This page has not been fully proofread.

अष्टादशः सर्गः ।
 
अथाष्टादशः सर्गः ॥
 
अनन्तरं जम्बुकदिङ्मुखातिथेस्तमैः परिष्वङ्ग-सँहस्य भास्वतः ।
नवस्रशोणीलिंलिहूर्निशाचरा विलोचनैर्मूलमयूखमञ्जरीः ॥ १ ॥
 
स्फुटत्विषा पश्चिमसन्ध्ययाऽर्पितप्रकामबिम्बाधरमुद्रिकारुचि ।
ददौ दृशां विंशतिमंशुमल्लयाँद्दशानन चारुणि वारुणीमुखे ॥ २ ॥
विलोक्य सन्ध्यातपलोहिनीर्दिशो दशाननः स्वं स्मरति स्म साहसम् ।
स येन चक्रे निजकन्धराटवीनिवेशितासिर्जगदस्रपाटलम् ॥ ३ ॥
 
अनृत्यतेवाद्भुतरौद्रमुच्चकैर्निशाचरेन्द्रं प्रति पश्चिमाशया ।
मदीर्घसन्ध्यारसनग्ररोपितस्फुरत्प्रचण्डद्युतिमण्डलाग्रया ॥ ४ ॥
निवर्त्य पारादपरस्य वारिधेरनुव्रतं वाँसरमेकबान्धवम् ।
विवेश गम्भीरमगारमप्पतेर्विनीतपादप्रसरः प्रभाकरः ॥ ५ ॥
तथोल्लसद्दीधितिजालडम्बरादलम्भि नारादपि यो विलोकितुम् ।
स एव सायं नयनैरलयत त्विषां निधिः को नियतेरगोचरः ॥ ६ ॥ ●
 
पतङ्गबिम्बं पतदम्बरोदराद्वभार मूर्ध्ना चरमक्षमाधरः ।
सुशिक्षिताः कर्तुमनुत्तमौजसां महान्त एवापदि पर्युपासनम् ॥ ७ ॥
रराज लाक्षारसरक्तमम्बरं बभ्रुः प्रवालाभरणा दिगङ्गनाः ।
चकासिरे तत्क्षणमूर्मयोऽम्बुधेः पुनः प्रसर्पन्मधुकैटभासृजः ॥ ८ ॥
विलम्बमानारुणभास्कराननो निमीलतोद्दामविकासिपुष्करः ।
जगाम धीरं परिणामरम्यतामहःकरी रोधसि पश्चिमोदधेः ॥ ९ ॥
बबन्ध मुद्रामलसा सरोजिनी कुमुद्रती कोशमदर्शयन्निजम् ।
समेत्य शिश्ये कलहंसमण्डली वितत्य चक्राहृयुगानि चुक्रुशुः १०॥
 
शनैः स्वनन्निश्रलकण्ठकन्दलाञ्चलत्पतत्राद्वतयाग्रपाणयः ।
विचित्रराजीरचना मनीषिणः सुखं खगाः खेन दिशः प्रतस्थिरे ॥ ११ ॥
 
१. Dमी २. Aम। ३. Aरा ४. BD चिः । ५. Aयां CD या ६. D भ्रगणा । ७. A
ज़दू । ८. BC श्वस ९. Bल ।
 
२०