This page has not been fully proofread.

१५२
 
दशाननापानकेलिवर्णनो नाम
 
सस्मार कार्य विजहौ विकारं हरिप्रवीरः स तथैव तस्थौ ।
विजेतुकामा हि परं परार्ध्याः स्वात्मानमेव प्रथमं जयन्ति ॥ ७३ ॥
 
शुश्राव तत्र स तदाऽऽभिमुखीनकार्यः पर्यन्तसंसरणदेशजुषां पशूनाम् ।
सांराविणं निकटरावणमृत्युशंसि स्मेरो विरोदनविरावितरङ्गरौद्रम् ॥ ७४ ॥
 
वामेतरेक्षणपुटस्फुरितप्रहृष्टः शृण्वन्नदक्षिणशिवारसितानि वीरः ।
तत्रैव सोऽधिगमनीय पुरव्यवस्थः तस्थौ प्रदोष॑समयं समुदीक्षमाणः ॥ ७५ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सुवेलाङ्गाधिष्ठानो नाम
सप्तदशः सर्गः समाप्तः ॥
 
नामावति कस्य चराचरेऽस्मिन् श्रीहारवर्षनृपचन्द्रमसः प्रभावः ।
येनानिशं ललितकोमलकाव्यमूर्तिः ( तें: )सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥
किं शीधुभिर्भवतु फाणितशर्कराद्यैः किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाऽब्धिलब्धसुधयाऽपि न किंचिदेव यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
 
9 A निशीथ २ BCE read these two slokas ।