रामचरितम् /183
This page has not been fully proofread.
सप्तदशः सर्गः ।
त्रीण त्रयीत्राणसहः पुरस्ताल्लोहार्गलान्यैक्षत गोपुराणि ।
तत्रादराद्दत्तमहाकवाटं दृष्ट्वोत्तरद्वारमसौ जहास ॥ ६१
स पुष्पकादीनि ककुप्पतिभ्यो दशाननेन प्रसभं हृतानि ।
अपश्यदत्यद्भुतकल्पनानि विमानरत्नानि च तानि तत्र ॥ ६२ ॥
सद्यो हृताः का'अपि कातराङ्गीः तत्र क्रमात् का अपि निर्विशङ्कगः ।
सुराङ्गनाः का अपि सोऽभ्यपश्यत् कारासु कारुण्यविमुक्तकण्ठीः ॥ ६३ ॥
स तत्र तत्राशनिशक्तिशूलशस्त्रीगदामुद्गरखङ्ग पाणीन् ।
ववल्ग वीक्ष्य प्रमनाः प्लवङ्ग : साङ्ग्रामिका न्यामिकयातुधानान् ॥ ६४ ॥
तामीक्षमाणो नगरीमकस्मात्स विस्मयाद्विस्मयमाससाद ।
यदेकतः कान्तपवित्रवेषान्विभीषणस्याभिसँरान्ददर्श ॥ ६५ ॥
अत्रापरा केयमिति ब्रुवाणो मखाग्निधूमावलिमीक्षते स्मै॑ ।
तत्त्वस्पृशः क्वापि च सोऽभिलापानभीक्ष्णमाकर्ण्य शिरो दुधाव ॥ ६६ ॥
शुश्राव शय्यागृहगहरान्तः पुरातिरिक्तानि पुरि भ्रमन्ति ।
स कुम्भकर्णस्य जितार्णवोर्मिसंघट्टघोषाणि च घोरितानि ॥ ६७ ॥
दर्पः शरीरीव दशाननस्य तेन प्रधानप्रतिहारमूले ।
अदर्शि देवर्षिकदम्बकानां दिशन् गलेहस्तमथ प्रहस्तः ॥ ६८ ॥
महोदरेणादरदत्तपाणिर्विश्राणिताध्वा शुकसारणाभ्याम् ।
तेन भ्रमन्वि भ्रमकेकराक्षो रक्षोयुवाऽदृश्यत जम्बुमाली ॥ ६९ ॥
श्यामः सुदंष्ट्रोऽरुणवञ्जुलांससन्धः॑िः समुद्राहितबर्बरीकः ।
तस्याविरासीत् पुरतः प्रवीर: कुमारचूडामणिरक्षनामा ॥ ७० ॥
कथं कथंचिज्जितकोपवेगो नयप्रकोपं न कपिर्विषेहे ॥
चिकर्षिति स्म श्रुतभृतनाम्नो नरान्तकस्यान्तमसौ तदैव ॥ ७१ ॥
रोषानल: संप्रति मे घनादस्तदत्र हव्यं भव मेघनाद ।
इतीन्द्रजिद्दर्शनकोपितेन चक्रे रयश्चेतसि कोपि तेन ॥ ७२ ॥
१. BCDE मयः । २. A रन्यस्त । ३. B नुच ४. BC स वीक्षतेस्याहुतिधूमलेख । ५. A
दृक्पलाशस्वी । ६. A चर्च ।