रामचरितम् /181
This page has not been fully proofread.
सप्तदशः सर्गः ।
सौम्यः समन्तादयमम्बुधिश्चेदयं गिरिश्वेदनघः सुवेलः ।
अयं पुनः किं विहितः पुरोऽस्याः पतिः प्रतिज्ञातजगद्विलोपः ॥ ३७ ॥
मूर्तिः सुधांशोरिव लाञ्छनेन पटीरवल्लीव भुजङ्गमेन॑ ।
लक्ष्मीरिवोत्कर्षवती मदेन पूर्दूषितेयं दशकन्धरेण ॥ ३८ ॥
तामेकपत्नीं रघुनन्दनस्य निशाचरस्त्रीपरिषत्परीताम् ।
आसादयिष्यामि कथं पुरेऽस्मिन्विद्यामविद्यापिहितामिवाहम् ॥ ३९ ॥
किमित्थमेवावतरामि तुर्णमथार्णवाभ्यर्णवैने भवामि ।
सुवेलशृङ्गेषु दिनस्य शेषं नयामि निर्वर्णितनिर्गमो वा ॥ ४० ॥
इमं ममाम्भोनिधिलङ्घनार्थमतिप्रवृद्धं न शरीरभारम् ।
जानेऽष्टदिङ्गागधृतां धराऽपि प्रतीच्छतीयं कियती पुनः पूः ॥ ४१ ॥
संक्षिप्तमेतर्हि करोमि देहं विदेहराजस्य सुतां चिनोमि ।
महान् बहिस्तिष्ठति संकटेषु क्षुद्रोऽधिगच्छत्यवकाशमाशु ॥ ४२ ॥
१४९
इत्थं पुरेऽस्मिन्निपताम्यहं चेन्नक्तंचराः किंस्विदिति द्रवन्ति ।
वीक्ष्य च्युतं मां गगनादकस्मादार्या न विश्वासमुपैति साऽपि ॥ ४३ ॥
इदं ध्रुवं राजकुलं पुरस्तादेतानि शुद्धान्तगृहाणि नूनम् ।
अमूनि मन्ये गगनं लिखन्ति श्रीमन्ति सामन्तनिकेतनानि ॥ ४४ ॥
इमां किमह्नाय बलादरातेः सीतावशेषां नगरीं करोमि ।
किमुद्धृताधारमहीधमूलामादाय गच्छामि यथागतं वा ॥ ४५ ॥
अपि प्रदेशं जगतः सुगुप्तं सप्तार्चिषः सूत इव त्वरावान् ।
रामस्य दूतः पुरमेतदेष्यन्नणोरणीयानथवा भवामि ॥ ४६ ॥
रक्षोर्वैनेऽस्मिन्मनुजेन्द्रसुनोः सीतेति सन्देहमसूनुपेतान ।
अहं यते मार्गितुमभ्युपायँसिद्धार्थवीजानि किरन कराभ्याम् ॥ ४७ ॥
अहो चर्या : कीकसपर्वतानामहो घनाः शोणितनिर्झरिण्यः ।
अहो मनोज्ञान्यपि मन्दिराणि परीत्य घोरा कुणपाटवीयम् ॥ ४८ ॥
१. BCDE व्यालेन वल्ली मलयोद्भवेष । २. BD अनेऽथवाभ्यर्णचरे । ३. A जाम् । ४. ABCE घ
५. A यः B यं । ६. A भर ।