रामचरितम् /177
This page has not been fully proofread.
षोडशः सर्गः ।
यानिमानमृतभानुवलक्षानीक्षसे कपिकुमारक रङ्कगन् ।
तेऽस्रमांसविरहान्मरुतोऽस्तास्तृप्तया मलयमूर्ध्नि मयैव ॥ ९९ ॥
त्वामहं विधुमिवाद्य निगीर्य स्वः पिशाचजननीसमनामां ।
निर्विशामि सहितमतताङ्गी निस्तरङ्गमिदमम्बुधितल्पम् ॥ १०० ॥
इत्युदीर्य वचनं तमुदर्णिद्वादशार्ककिरणाधिकभासम् ।
सा महाप्रलयकालदिनान्तध्वान्तराजिनिबिडा निजगार ॥ १०१ ॥
हा कुमारकमकालविपन्नं हा मरुद्गणवरौघविसर्गम् ।
हा तमादिपुरुषं जननादिक्लेशखेदितमकारणमेव ॥ १०२ ॥
नन्दिकेश जगतामशुभेन स्फूर्जति स्म स तवापि न शापः ।
कस्तरिष्यति भयङ्करमेवं वानरेषु जलराशिमिदानीम् ॥ १०३ ॥
कैकयि क्षयमुपैहि नृशंसे कोऽथवाल्पमनसस्तव दोषः ।
यूपरुद्धवसुधोऽपि स शोच्यः स्त्रीजितो दशरथः क्षितिपालः ॥ १०४ ॥
नन्द पौत्रविजयेन पुलस्त्य क्वापयाम कमलासन शाधि ।
त्र्यक्ष तुष्य स विगर्जतु मत्तस्त्वत्प्रसादरभसः पिशिताशः ॥ १०५ ॥
दत्त हस्तमृषयस्त्रिदशानामंशुमान्निकृतिपांसुनिरुद्धः ।
इत्यवोचत नभश्चरलोकः कातरः कपिकुमारमपश्यन् ॥ १०६ ॥
तां विदार्य निरियाय हनूमानंशुमानिव घनाघनवीथीम् ।
अत्यदीपि च नृसिंह इवासृग्दिग्धपाणिशिखरो हरिसिंहः ॥ १०७ ॥
अन्तरीरितसमीरसुता सा पार्श्वयोरथ पृथक्पतिताभ्याम् ।
राक्षसी विकटवप्रनिभाभ्यां व्याप दूरमुदधिं द्विदलाभ्याम् ॥ १०८ ॥
तेन विस्मयमवाप सुरौघः कर्मणा दहनस्तसुतस्य ।
रावणस्य निधनं प्रति विश्वं व्यश्वसीत् प्रमुदितं च तदैव ॥ १०९ ॥
तां वागुरामिव दृढां दृढपीनवक्षाः संप्रेर्य वृक्षमृगयूथपतिर्बलेन ।
आसीदति स्म महते बतँ विद्रवाय स्थानीयमिन्द्रपुरचारु दशाननस्य ॥११०॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये समुद्रलङ्घनो नाम षोडशः सर्गः समाप्तः ॥
१ . B D नी सह । A नीं इसमाना । २. AD लुनातु समं न । ३. D वन ।
१९