This page has not been fully proofread.

षोडशः सर्गः ।
 
दूरमस्खलितशक्तिशरीरा कारणेशमनुयासि तथा त्वम् ।
जातु मार्गति यथा परिपूर्ण: साधनेषु न स देहमपि स्वम् ॥ ७२ ॥
कः कदाऽप्यभिमतेन घटेत स्याः क्रियेति यदि न त्वमुपायः ।
अम्ब डिम्बमहरिष्यत केन त्वं नचेन्नियतिरित्यभविष्यः ॥ ७३ ॥
अस्तु चारभुवि भूरिभयायां चिह्नभीर हिमवाहिनि विश्वम् ।
पारमेति शिवशक्तिवरत्रानम्ब संभृतबलो विरलस्ते ॥ ७४ ॥
 
ग्राह्यसे त्वमतरङ्गसुधोदस्फीतशीतलरहस्यविभूतिः ।
वीतरागमलपङ्क विलेपैरम्ब संविदिति सूरिभिरन्तः ॥ ७५ ॥
ज्ञप्तिरित्यवितथा तव मूर्तिः ज्ञेयमित्यनृतमावरणं ते ।
त्वामतश्चिरनिमीलितनेत्राः कोटवीं सुमनसोऽनुसरन्ति ॥ ७६ ॥
कोऽवगच्छति शिवे तत्र तत्त्वं यत्तव स्तवमलं विदधाति ।
एहि सर्वजनमातरकाण्डे समदं मदनुरोधवशेन ॥ ७७ ॥
देवि देवकरणीयनिमित्तं यन्मयातिपतितस्तव कायः ।
तज्जगत्रयमहीयसि मातर्मर्षणीयमणुकस्य ममागः ॥ ७८ ॥
रामनामपिहितस्य हितैषी वानरोऽहमसुरान्तकरस्य ।
एष मार्गितुमुपैमि तनूजामम्बुधेर्जनकराजसुतेति ॥ ७९ ॥
देहि देवि गमनाय नियोगं यामि रामरमणीमनुसर्तुम् ।
योगिनि क्षिप समस्तमयोगं कर्तुमानतिमुपैमि पुनस्ते ॥ ८० ॥
राघवौ रविसुतो युवराजः सुनुरम्बुजभुवो नलनीलौ ।
ते गवप्रभृतयश्च वयस्यास्त्वां मया भगवति प्रणमन्ति ॥ ८१ ॥
सा तुतोष तुषितैः सह तस्य प्रज्ञया च विनयेन च तेन ।
तर्हि वाचमिति चाप्रतिरम्यां सौम्यभावमुपगम्य बभाषे ॥ ८२ ॥
एहि यामि पवनात्मज तुष्टा यत्त्वमिच्छसि ददामि तदाशु ।
गच्छ संप्रति सुखेन सुरैस्ते सौष्ठवं हि विषमेऽपि सुदृष्टम् ॥ ८३ ॥
स्वस्ति तेऽस्तु निकषातनयानामेककः कदनमाशु कुरुष्व ।
दक्षिणां दिशमिमां चिरमुक्तामावसन्तु सुरसिद्धमुनीन्द्राः ॥ ८४ ॥
अत्र तेऽध्वनि विशुद्धषडध्वा सिद्धिमष्टतनुराशु तनोतु ।
विघ्नवंशविपिनानि पुरस्तादुद्धरन् व्रजत च द्विरदास्यः ॥ ८५ ॥
 
१४३