रामचरितम् /174
This page has not been fully proofread.
१४२
समुद्रलङ्घनो नाम
दुष्टदैत्यकुलमारि नमस्ते योगविभ्रमकुमारि नमस्ते ।
चाटुकारिमदनारि नमस्ते विष्टपैकवरनारि नमस्ते ॥ ५९ ॥
त्वां जगन्मतमहां महयामि त्वां जगत्कृतमहाबलिमीडे ।
त्वां जगत्प्रसविनीं प्रणमामि त्वां जगत्क्षयकरीमुपतिष्ठे ॥ ६० ॥
ब्राह्मि वैश्रावणि वैष्णव रौद्रि स्कान्दि चान्द्रमसि चण्डि नमस्ते ।
कस्तव प्रतिविशेषमवैति स्तूयसेऽत्र वरदेति न केन ॥ ६१ ॥
त्वं सृजस्यवसि संहरसि त्वं त्वं बिभर्षि भुवनानि भवानि ।
त्वं निमीलयसि बोधयसि त्वं त्वं विचित्रगतिरीशितुरिच्छा ॥ ६२ ॥
विप्रकीर्णविकृतिः प्रकृतिस्त्वं त्वं विकल्पमलमोक्षशुचिश्चित् ।
सिद्धिरष्टगुणपल्लविनी त्वं त्वं विशुद्धिरुपमानदरिद्रा ।॥ ६३ ॥
त्वन्मयोऽयमणुसङ्घविकारः त्वन्मयोऽयमहमित्यभिमानः ।
त्वन्मयं तदपि देवि दवीयस्तत्वमामिति पदप्रतिपाद्यम् ॥ ६४ ॥
त्वं प्रसह्य विहतप्रसवेषोरर्धमर्धहिमधामधरस्य ।
देवि दीप्तपुरुषोत्तमलील: श्रीपतिः सकल एव स च त्वम् ॥ ६५ ॥
ते त्वयैव परितः परिणद्धाः शक्तिभावततया लतयेव ।
बिभ्रती दमबलत्वमुपेताः सद्म पद्मवसतेः शतमीशाः ॥ ६६ ॥
उद्यता हिमवतः शिखरीन्द्रावं त्रिवर्गफलवल्लिरपर्णा ।
त्वच्च नाकिनयनोत्सवकारी कन्दलः प्रभवति स्म विशाखः ६७ ॥
याजजूकवपुषो गिरिशस्य त्वं प्रतीच्छसि यथेच्छमुपेत्य ।
तं तमृग्यजुषमन्त्रपदोक्ता देवताऽनलमुखी मखभागम् ॥ ६८ ॥
जग्रसे गजतनुर्दनुसूनुर्गाढतानवपुषा वपुषा ते ।
अब्जकोशमृदुना महिषः प्राक् चुक्षुदे स च रणे चरणेन ॥ ६९ ॥
स्मेरमुग्धमुखचन्द्रमसा वा दीर्घवत्रदशनावलिना वा ।
येन तेन हृदि तिष्ठसि शम्भोरात्तमुक्तकरुणे करणेन ।॥ ७० ॥
बुद्धिरूपिणि विरूपदृशस्तत्कौशलं किमपि देवि ददासि ।
येन दृष्टविपरीतविशेषः साध्यते स कथमप्यभिरूपैः ॥ ७१ ॥