रामचरितम् /172
This page has not been fully proofread.
१४०
समुद्रलङ्गनो नाम
तं विलोक्यं पथि कान्यपि दूरं भेजिरेऽब्धिजलवाहकुलानि ।
अत्रजत् क्षणमनीश्वरस्तूतस्तद्दिशैव दिवसेशरथोऽपि ॥ ३६ ॥
बाडबः किमुदधेरुदितोऽयं लम्बितः किमथवाऽम्बरतोऽर्कः ।
इत्यतर्क्यत गुहाग्रेंगताभिः स क्षणं मलयकिम्पुरुषीभिः ॥ ३७ ॥
सन्निकृष्टमुदधेरुपरिष्टात्तस्य देहपरिणाहमपश्यन् ।
मन्दरस्मृतिभवेने॑ भयेन व्याकुलाः सलिलजन्तुविशेषाः ॥ ३८ ॥
तं विलोक्य चकितान्निजशिष्यान् पृच्छतः कलश योनिरुवाच ।
राक्षसेन्द्रमवगच्छत वत्साः केतुनोक्तविनिपातमनेन ॥ ३९ ॥
दुर्निरीक्ष्यमुखमण्डलदीप्तिव्याप्तदक्षिणदिगन्तरभागः ।
स्वर्गवासिभिरनागतमेव स्तुर्यंते स्म स दहन्निव लङ्कनम् ॥ ४० ॥
इत्थमीक्षितगतिर्गगनेऽस्मिन्वीक्ष्यतां प्रतिहतः कथमेति ।
उत्सुकादिति सुराः सरमाख्यां मातरं तमु॒परोद्धुमवोचन् । ४१ ॥
साऽथ सादरनभश्चरसार्थप्रार्थिता पवनपुत्रमरुन्धत् ।
धावमानमभिवारिधि विन्ध्योपस्यकेव सुरसिन्धुजलौघम् ॥ ४२ ॥
तां वितर्ककणकूणितनेत्रः कौणपीति कलयन् कपिसिंहः ।
लङ्घनाय लघुयत्नमकार्षीदुद्गमेन गगनावधिभाजा ॥ ४३ ॥
सा वितत्य वियदेव वितस्थे तस्थिवांसमवदत्तमिदं च ।
गच्छ गच्छ ननु वेत्सि समन्तादन्तरालमिदमीदृशमेव ॥ ४४ ॥
देशितोऽयमहतस्तव येन द्वित्रसिद्धपथिकोऽम्बरमार्गः ।
तस्य मार्गमसुनिर्गमहेतोः कर्तुमुद्यतमिदं मम शस्त्रम् ॥ ४५ ॥
एति भूतपतिरेव कदापि स्थानमेतदुपनीतबैंलिर्नः ।
अत्र वृत्रहणमप्यनपेक्षा मातरः कबलयन्ति भवान् कः ॥ ४६ ॥
नश्य नश्य कपिशाबक दूरात् कोऽसि मामकमुदीक्षितुमास्यम् ।
जायते यदवलोक्य कृतान्तैः सोऽपि दुर्भरभयज्वरवेगः ॥ ४७ ॥
१. B C D म । २. B थगा । ३. B गादयमब्धे । ४. BCD र्ध । ५. A भुवेव । ६. BCD
श्रूय । ७. B C D नीक्षितप्रतिहतिः । ८. B ताःसुरसा । ९. Dशा । १०. A लंनः । ११. A कपर्दी ।