This page has not been fully proofread.

षोडशः सर्गः ।
 
तेन रेचकसमुल्लसितेन त्यक्तवामनतनुर्दनुजारिः ।
स्मारितो हृदि सुरस्थविराणामप्रमेयविभवेन बभूव ॥ २४ ॥
सुनुभावसुलभादिव हार्दात्तस्य वायुरनुकूलतमोऽभूत् ।
अञ्जनेव जननी तमजिघन्मूर्ध्नि मुग्धशशिबिम्बमुखी द्यौः ॥ २५ ॥
 
विक्रमेण सुहृदामभिकामं दिङ्मुखानि मुर्खदीधितिजालैः ।
पूरयन् पवनम्नुरियाय च्छाययाऽम्बुनिधिमम्बरमङ्गैः ॥ २६ ॥
 
उद्भटास्यरुचमुद्भयमुग्धप्रेयसीनियमरुद्धविमानाः ।
दूरतस्तमनमन्नमरार्थव्याप्तं वियति सिद्धयुवानः ॥ २७ ॥
 
दृङ्निरोधिनि दिगन्तरलिप्ये चम्पकाग्रकपिशे कपियूनः ।
तस्य मूर्छति मुखद्युतिराशावावर सन्दर्क ॥ २८ ॥
 
तं धुताग्रजलवाहर्धेवित्रस्तोयराशिरनिलेन जडेनँ ।
अन्ववर्तत सुदूरमुदग्रं कर्म कार्मणमिह प्रभुतायाः ॥ २९ ॥
 
दक्षिणेन स पथाऽम्बुधराणामम्बुधेरुपरि संचरमाणः ।
जिह्मगारिरमृतस्य कृते नु प्रस्थितः सुरसभाँमिव रेजे ॥ ३० ॥
रंहसश्च महसश्च समाधेस्तस्य चाधिकतया से तदानीम् ।
उल्ललास पृषदश्वविवस्वद्भूभृत विलसितानि विहस्यै ॥ ३१ ॥
छायया निजतनोः स तदानीमायतप्रगुणया लवणाब्धौ ।
सूत्रपातमिव पर्वतसेतोः भाविनः पवनसुनुरकर्षीत् ॥ ३२ ॥
तस्य वीक्ष्य वपुरुन्नतवकाः पञ्चवक्रमकरा विकरालम् ।
ईयुरानतिजुषस्तलमब्धेरध्वनेभमकरप्रहतेन ॥ ३३ ॥
 
तं विलोक्य जलधेरुपरिष्टादद्रयः कुलिशकर्कशकायम् ।
हेत्युदीर्य ददति स्म तदानीमात्मपक्षयुगलाय जलानि ॥ ३४ ॥
तन्मरीचिखचितो रुरुचेऽब्धि: क्षौद्रराशिरिव पिङ्गतरङ्गः ।
लावणोऽयमिति लिङ्ग विशेषैः कैश्चिदेव स तदाऽधिगतोऽभूत् ॥ ३५ ॥
 
१. A पुरःस्थ । २. B रवि । ३. Aन्तसु । ४. Aम्पे Dध्ये । ५. BCD विचि । ६. BCD
विधूतः । ७. BCD पतगराडि । ८. BCघि । ९. Bझु । १० AD द्विश्वभू । ११. BD वहितस्सः ।