रामचरितम् /170
This page has not been fully proofread.
१३८
समुद्रलङ्गनो नाम
प्रस्खलद्भिरुपलैरुपरिष्टान्निर्विषङ्गेरयपिष्टनिकुञ्जैः ।
मूलकाननतलानि तदानीं गण्डशैलबहलाँनि बभूवुः ॥ १२ ॥
स्वन्तमेतदिति स्रुनृतयोक्त्या सन्निरुध्य मिथुनानि मयूनाम् ।
नाकसद्मयुवसंसदयासीदायतिं विषहते न यदृच्छा ॥ १३ ॥
स्थानभङ्ग विकलैर्जलवाहैस्तत्यजे भृगुषु विग्रहभारः ।
आगतादिव समाकुलभावान्न द्रुतं रुरुधिरे मरुताऽपि ॥ १४ ॥
ध्वस्तमग्रतरुपुष्पवितानं रुद्धमश्वमुखदम्पतिगीतम् ।
नीलकण्ठनिवहस्य निषिद्धं तेन ताण्डवमकाण्डभयेन ॥ १५ ॥
तत्क्षणं गगन एवं निरुद्धक्लान्तवाहनवलाहकपोतः ।
ईक्षितातिगहना ययुक्त्वा हा महेन्द्रमिति सिद्धकुमारौंः ॥ १६ ॥
भेजुरुज्झितविचित्रशिलालीसंनिवेशविनिवेशविलासाः ।
मन्त्रणाकुलपरस्परसख्यंः प्रश्नपेशलगिरोऽप्सरसः खम् ॥ १७ ॥
मेखलासु विकलासनवन्धैर्ब्रह्मणोऽधिगमनादुपरम्य ।
मृग्यते स्म मुनिभिः क्षणलोलैर्मूलमद्रिडमरस्य तदानीम् ॥ १८ ॥
मारुतान्ममृषिरे खरवेगान्मेघनादमसहन्त महान्तम् ।
तत्र चित्रलिखिता इव सेदुर्नारभन्त शरभा अपि किंचित् ॥ १९ ॥
आपतत्सु तरुषु व्रततीषु व्याकुलासु विकलेषु मृगेषु ।
स्वोष्मणः सदृशमागतचित्तैश्चिन्त्यते स्म न किमप्यधिदेवैः ॥ २० ॥
मां पिनष्टि कपिरद्भुतरूपः कोऽप्ययं क्व बत केसरिणो मे ।
इत्यनाथ इव निर्झरघोषैः घर्घराक्षरमुवाच महेन्द्रः ॥ २१ ॥
एष पश्य विपुलोर्मिरुदन्वानुन्नमन्त्यवनमन्ति महीध्रः ।
धारणेयमनिलात्मज विश्वध्वंसिनीत्युदचरगगनाद्गीः ॥ २२ ॥
वेगवातविधुतप्रमुखाभ्रो बभ्रुकेसरकलापकरालः ।
उत्पपात स चिरेण महेन्द्रान्मन्दरादिव शरस्त्रिपुरारेः ॥ २३ ॥
१. A शङ्क । २. D शीतचटुला । ३. BCD तोपि । ४. BCD तैः । ५. BD नैर्गतमु । ६. A
इ । ७. BCD रैः । ८. A संभ्रमा. ९. A ह्य । १० C युवन ११. C लो। १२. BC न्द्राः ।