This page has not been fully proofread.

षोडशः सर्गः ।
 
अथ षोडशः सर्गः ॥
 
:: 46
 
तं मुहूर्तÚतशृङ्गमगेन्द्रं गान्धवाहिरधिरुह्य रराज ।
हृष्टवानरगणोक्तजयाशीजींवितेशविजयीव
 
तेऽदद्विविदनीलनलाद्यास्तस्य तुङ्गिन्मतिरस्कृतमेरोः ।
विप्रकीर्णतपनीयकणाभाः पार्श्वतो ददृशिरे हरिवीराः ॥ २ ॥
संबभूव नगमूर्धनि तस्मिन् सोऽथ पूरँकपृथूकृतकायः ।
जातशङ्कमकरोदभियास्यन् कुम्भयोनिमपि कुम्भकवीरः ॥ ३ ॥
उद्ववाम परितः सलिलौघानुत्ससर्ज शिखराणि ग्रास ।
आममृन्मणिकवन्न विषेहे तस्य कुम्भकभरं स महेन्द्रः ॥ ४ ॥
 
महोक्षम् ॥ १ ॥
 
॥ ७॥
 
लोलपुष्पविटपोल्ललितानां तुल्यकालमलिनां स निनादः ।
निर्ममज्ज गगनाङ्गणभाजां नीडदुःखरसितेषु खगानाम् ॥ ५ ॥
दृग्भिरेव गतमाकुलमेणैर्गर्भभारैमसृणासु मृगीषु ।
ज्या विलॆग्नवनितैर्धनुरध्वर्धरोपितमकारि किरातैः ॥ ६ ॥
तेन पुण्यघटितेन ततोऽद्रेः पीडितादघततिर्निभृतेव ।
निर्जगाम दृषदाचितकच्छादच्छल्लपरिषद्विरसन्ती
लुप्यते स्म कृपणोचितचेष्टारम्भनिरृतिषु दन्तिषु दानम् ।
ते मृगाधिपतयः क्षणदुःस्थाः प्रस्थपादमपि मार्गितुमीयुँः ॥ ८ ॥
अन्तेिष्वपि कर विशेषैस्तेषु चातिभयदेषु भयार्तम् ।
सानुसन्धिषु पपात विबुद्धक्षुब्धकेसरिषु कुञ्जरयूथम् ॥ ९ ॥
निर्यये निरवकाशितरन्धैरुन्मयूखमणिलाञ्छितचूडैः ।
कन्दरासु भुजगाशनकेकातङ्कलोलनयनैः कुलनागैः ॥ १० ॥
उन्नताब्धिलहरीगलहस्तक्षोभजातबहुलोत्कलिकाभिः ।
आत्तसन्नंतिषु निर्झरिणीभिस्तेषु नाग्रशिखरेष्वपि तस्थे ॥ ११ ॥
 
१३७
 
१. AD धृ । २. BD सूरक । ३. B पात । ४. D ध्यान । ५. B धनिकै । ६. D रेत्यायधिं ।
 
७. A षुः । ८. A नभयार्थम् । ९. BC अभ्रसङ्ग ।