This page has not been fully proofread.

१३६
 
समुद्रलङ्घनोत्साहित हनुमत्स्तुतिवर्णनो नाम
 
नमोऽस्तु ते निधिरयमीक्ष्यतामपां प्रसीद भोः स्मर महिमानमात्मनः ।
तवाहितत्रिदशभयङ्करप्लुतेः खगोचितं कियदिदमन्तरं दिवः । ६० ।
किमुच्यते बहुतरमेवमादिषु प्रयोजनेष्वनवरतं स दीक्षितः ।
विवक्षता किमपि रघूद्वहेन यस्तथा चिरं कपिवरसंसदीक्षितः ॥ ६१ ॥
इति स्तुतिप्रमुखमधीशितुर्मुखाद्वचोमधु श्रवणपुटेन पीतवान् ।
अवर्धत स्वमहिमसंमदस्फुरत्प्रभागमस्थगितविभक्तिरानिलिः ॥ ६२ ॥
व्यजृम्भत व्यवहितभास्करातपं तद्भुतं भुवनभयङ्करं महः ।
द्रवन्मिथः किमपि किमप्यतर्कयच्चमत्कृतः सपदि सुपर्वणां गणः ॥ ६३ ॥
लाङ्गूलेन गभस्तिमान्वलयितः प्रोतः शशी मौलिना
 
जीमूता विधुताः सटाभिरुडवो दंष्ट्राभिरासादिताः ।
उत्तीर्णोऽम्बुनिधिरृशैव विशदैस्तेनाट्टहासोर्मिभिः
 
लङ्केशस्य विलाङ्घतो दिरी दिशि क्रूरः प्रतापानलः ॥ ६४ ॥
अर्घायोदचलत्त्रिविक्रमधिया जातभ्रमो जाम्बवान्
यत्सत्यं चकितोऽङ्गदः कथमपि स्थानात्परं नै च्युतः ।
जग्मुः क्ष्मामितरे तु मीलितदृशस्तारादयो यूथपा:
तस्यात्युग्रमहःप्रतानपरिधौ देतेः मूर्छति ॥ ६५ ॥
देवो गोवृषवाहनः सह गणैरव्यक्षतामभ्यगा-
गन्धर्वा जगुरप्सरः परिवृताः प्रास्थानिकं मङ्गलम् ।
पेतुः खान्मधुनिर्भराः सुमनसः स्फीतो नदद्दुन्दुभि -
स्तस्य स्वस्त्ययनं चकार निकटीभूतः स्वयं पद्मभूः ॥ ६६ ॥
मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती-
नाश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥ ६७ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये समुद्रलङ्घनो-
त्साहित हनूमत्स्तुतिवर्णनो नाम पञ्चदशः सर्गः ।
 
१. ABC पदः स्फु। २. BC दुद्भवं ३ A पुनर्न । ४ Domits this sloka. ५. A श्लिष्य ।
६. BD आश्वास्य प्रमुखान्निजप्रियसखान्भृत्यान् समादेश्य च । A. नाप्नुच्छ्याङ्गदमादरेण सुहृदः संमान्य संभाव्य
च । ७. CDomit this.