This page has not been fully proofread.

पञ्चदशः सर्गः ।
 
अहर्दिवं द्रविणपरिक्षयप्रदेः प्रयोजनं किमिव तदाऽनुजीविभिः ।
पुरः स्पृशत्यललितहेतुसंभवो' यदि श्रमः सुखसुकुमारमीश्वरम् ॥ ४८ ॥
 
अनन्तरं परममिति प्रपन्नवाननुत्तरं द्रुहिणसुतस्य तद्वचः ।
प्रचक्रमेऽभिमुखयितुं पुरःस्थितं सुभाषितैरिति हनुमन्तमङ्गदः ॥ ४९ ॥
ध्रुवं वचः स्खलतिं महाप्रतिष्ठयोरभिष्टुतौ तव कविजीवयोरपि ।
सहस्थितिप्रणयसमुद्भवा पुनः प्रगल्भता जनयति मे समुद्यमम् ॥ ५० ॥
तवोर्जितं यदि वदति स्वयं स्वभूः सरस्वती यदि तव वक्ति वैभवम् ।
अहं पुनः क इव पितृव्यकिङ्करो दयाजडस्त्वमपि न यत्र तत्र चेत् ॥ ५१ ॥
 
सुमेरुणा तलमिव साचलं क्षितेः बहुद्विपं वनमिव गन्धहस्तिना ।
ग्रहाकुलं वियदिव विश्वचक्षुषा सदस्त्वया सुभट चितं चकास्त्यदः ॥ ५२ ॥
न ते गतिः स्वलति मतिर्न मुह्यति द्युतिस्तिरोभवति न जातु कुत्रचित् ।
महर्द्धिभिस्त्वमनिलतुष्टये सुरैः कृतो अणिमप्रभृतिमहागुणेश्वरः ॥ ५३ ॥
तवोपमा कमलभवेन योगतो निराकृतिं तव तरसा नयो गतः ।
स्त्रया परोपकृतिसुखावलम्बिना जितं जितं सुभट चमूवलंबिना ॥ ५४ ॥
 
तव प्रसुः कृतपृषदश्वरञ्जना सुराङ्गनासदृशविभूतिरञ्जना ।
त्वमेधितः खलु सुधया सुधाशनैः स्मरात्मनः प्रचरसि किं मुँधा शनैः ॥ ५५ ॥
कुरु स्थिरं परिकरमीयतामितः समाप्यतां नृपसुतकृत्यमायतम् ।
निराशिषः सह वपुषेदमागतं विपद्वतोद्धरणमहाव्रतं तव ॥ ५६ ॥
त्वमङ्गभूर्भुवनगुरोर्नभस्वतः तथा कृथास्त्वमभिर्भवं विवस्वतः ।
न ते ततं गगनतलं तरस्वतः किमीक्षसे दुरधिगमं सरस्वतः ॥ ५७ ॥
 
स पूर्यतां नृपसुतराजहंसयोः मनोरथः कपिकुलपद्मिनीरवेौं ।
इमा दिशो दशमुखकालिकाङ्किताः कुरूज्ज्वला निजकरेंजालनिर्गमैः " ॥ ५८ ॥
जयाञ्जनातनय तनुष्व वैर्ष्म तन्निहीनवत्किमवनतो विषीदसि ।
विलोकयन्त्वशिथिलबाहकन्दलीटताङ्गना गगनसदस्तवोद्गमम् ॥ ५९ ॥
 
१. D भ्रमो। २. A लित ३. AD सि ४. Aस्तिरस्कृतिं ५. A यु ६. BCD तिभयं ७. AB वने ८.AB म
९. B CD पतेः। १०. A रुचि ११. CD मेलैः । १२. BCD कर्म १३. BCD मिवबतातिसीद १४. CD वाग