This page has not been fully proofread.

पञ्चदशः सर्गः ।
 
जयत्यदः प्रतिदिनमंशुमानियद्विलवितुं त्रिभुवनमङ्घ्रिणा हरेः ।
पुरीं प्रति त्रिदशरिपोः पयोनिधौ कियन्ति भोः शतमिह योजनानि वः ॥ २३ ॥
जितोऽस्त्यैयं `तिमिनिलयस्तरस्विना कियानयं जगदवधिक्षमाधरः ।
भविष्यति प्रतिहतिशङ्किनां पुनः स्ववेश्मनोजिरमपि दूरमद्य वः ॥ २४ ॥
न मौलतां कलयति नूतनः प्रभुः समादिशत्यसदृशमेव निग्रहम् ।
मनोरथक्षतिकुपितोऽनुजीविनां न तातवद्गणयति निर्घृणः श्रमम् ॥ २५ ॥
त्यजन्त्यमून् कृंतसुभटाङ्गनात्रता वरस्त्रियो न तु रमयन्ति कातरम् ।
न सेत्स्यति स्खलितमहामनोरथाः स्वगेहिनीघटनमनोरथोऽपि वः॑ः ॥ २६ ॥
 
न दुर्गमं किमलसरुद्धरंहसां न दुर्जयं जगति किमुज्झिँतौजसाम् ।
न दुष्करं किमिव सदाऽवसादिनां न दुर्लभं किमिव च दैववादिनाम् ॥ २७ ॥
न कोऽध्ययं जरठनंदः सुहृत्तमाः किमीक्ष्यते शृणुत रहस्यमस्य भोः ।
तिरोहितश्चरणतलाम्भसा हरेरयं तटः सगरसुतौघदारितः ॥ २८ ॥
 
अयं हरेः कपिलहृतस्य कारणात् परश्शतैः सगरसुतैरखन्यत ॥
चिराद मुं हरशिरसस्तपोबलादपूपुरैत्रिपथगया भगीरथः ॥ २९ ॥
 
सुरासुरैरयमहिनद्धमन्दर भ्रमिमक्षतरभसैरमथ्यत ।
 
अमुं गलत्तिमिकुलमङ्गुलीविलै: मुनिः क्षणात् करगतमाचचाम च ॥ ३० ॥
 
भवद्भिरण्यचकितमद्य लङ्घयतामयं पुरः प्रधिरिवै राशिरम्भसाम् ।
अविप्लेवः प्रणयसहत्वमित्यदः स्थितिद्वयं सुविहितमस्य वेधसा ॥ ३१ ॥
 
महोदधौ मलयसुवेलयोस्तयोः पुरेऽथवा सुरपुरशिल्पिकल्पिते ।
प्रसज्यत प्रमदवनेषु मा स्म भोः स वः क्षणान् गणयति कोपनः प्रभुः ॥ ३२ ॥
 
स्वरंहसः कुरुत कपीश्वराः सदृक् त्रपावशात् प्रविशत मा स्म वारिधिम् ।
वशंवदो विधिरनुरूपकर्मणां न शर्मणे शिखिान पतसाहसम् ॥ ३३ ॥
 
इति श्रुताधिपतिगिरः प्लवङ्गमाः पृथक् पृथग्जगदुरशक्तिमात्मनः ।
तदाऽवदत् किमपि न तत्र केवलं बहिचिरीभिसरतयाऽऽनिलिः स्थितः ॥ ३४ ॥
 
१. A स्त्व । २. Aनि । ३. A नौ । ४. Aन । ५. Aक्ष । ६.Dन । ७. Aत्थि ।
८. BCव। ९. A रय । १०. BCम । ११. Aहि । १२. D धिष्ण । C विश्व । १३. A ह्यत ।
१६. AD इत्र ।
 
१४. BCD वशेन । १५ CDB दंन ।