This page has not been fully proofread.

१३२
 
समुद्रलङ्घनोत्साहितहनुमत्स्तुतिवर्णनो
 
नाम
 

 
इहार्णवे समुदितशक्तिकौमुदीवैशोल्लसन्मुखमुकुलस्य मूर्छतु ।
ककुप्सु ते कुमुद निकामजृम्भितं निमीलिते कपिकुलपद्मकानने ॥ ११ ॥
सखे र श्लथरभसं किमीक्षसे कुरु स्थिरं परिकरमस्य लङ्घने ।
अयं नदन्नवधनसंकुलोऽम्बुधि: भवादृशां भवनमुखप्रपोपर्यैः ॥ १२ ॥
विलङ्घ्यतां जलनिधिरेष लावणः प्रमथ्यतां प्रियसख रम्भ रावणः ।
प्रसाद्यतां प्रभुरभिजातवार्तया विलक्ष्यते वदनरुचा तवार्तया ॥ १३ ॥
नल स्थलं जनय जलौघमञ्जसा सुखं चमूर्त्रजर्तुं वनौकसामियम् ।
नभोऽथवाऽवनिमिव संविधत्स्व नः परीयतां तव पितृनिर्मिता पुरी ॥ १४ ॥
किमङ्घ्रिणा विलिखास मैन्द मेदिनीमुदीरय द्विविद तदद्भुतं तरः ।
विलङ्घ्यतामयमुदधिः स्थितोऽग्रतः स्वगौरव स्तिमित सुपुँप्तलीलया ॥ १५ ॥
लघूल्लसल्लहरितुषारतस्करैः तिरस्कृतश्रमसलिलेन वायुभिः ।
अंतीयतामयमथवेतरेण वामपां निधिर्दधिमुखदुर्मुखौ सुखम् ॥ १६ ॥
 
स्फुरन्मुखः शिखरितबभ्रुवालधिः चलन्द्रुतं विधुतकडारकेसरः ।
अमङ्गलं गव निगदन्नभस्तलात् पत क्षितेः सुत इव शत्रुमूर्धसु ॥ १७ ॥
प्रपद्यतामुपरि तरङ्गिणीपतेः क्षणं त्वया गवय गतागतश्रमः ।
प्रसीदतु प्लवगपतिः प्रकोपनः कुलं भयाभयद रक्ष्यतामिदम् ॥ १८ ॥
स जातवान् जितमिह तेन तस्य भोः सुजीवितं तमनघमेकमीड्महे ।
यमग्रतः प्रकटितसत्त्वसंपदं महापदि स्खलदवलम्बते कुलम् ॥ १९ ॥
जिते जगद्यसनसमाप्तिरम्बुधौ विरोधिते भयमतिभूरि भूभुजि ।
विचार्यतामभिमतैसिद्धये बुधाः क एतयोरुचितविलङ्घनोऽस्तु नः ॥ २० ॥
विलङ्घ्यतामुदधिरयं महौजसः स मृग्यतां दशवदनो दिशाऽनया ।
समाप्यतां प्रभुकरणीयमायतं विलोक्यतां विरहकृशो वधूजनः ॥ २१ ॥
इहैव भोस्तरलशिखाकदम्बके वरं हुतं हुतभुजि वाडबे वर्षुः ।
दृढक्रुधं परिवृढमुँर्मुरं पुनः न तं भयान्नतगयो गता वरम् ॥ २२ ॥
 
१. A चयो । २. D रस । ३. BCD प्रतोमुखं । ४. D शानवनखगप्रभो । ५. CB भस्स्थ ।
D तल ६. A व्रजति BC ध्वजतु । ७ Dलु । ८. A भी ९. C वक्र । १०. D कि । ११, AD यमिति
१२. A वाभेवद्व । १३. A वृत १४. A यम् ।