This page has not been fully proofread.

पञ्चदशः सर्गः ।
 
पञ्चदशः सर्गः ॥
 
विसृज्य तं निजकरणीयसंभवे कृतत्विषं तमसि विहङ्गमङ्गन्दः ।
अचूचुंदत्सदसि महाचमूपतीनिति द्रुतं लवणसमुद्रलङ्घने ॥ १ ॥
जितोऽम्बुधिर्जनकसुतेयमीक्षिता कथीकृतः स च परदारतस्करः ।
महौजसस्त्यजत विषादमागतो रघूहे बहुमतिनिष्क्रयैक्षणः ॥ २ ॥
 
पृथक् पृथक् कथयत वीर्यमात्मनो विपर्ययं वदति हि मौनमद्य वः ।
विकत्थनं वितथमशोभनं विदुः यथा तथा रमयति भूतमीरितम् ॥ ३ ॥
त्वैमुद्वहन्नलघुधुरं धरातले तथेक्षितः खलु विषमे समुज्ज्वलः ।
समेऽपि किं मुखमधुना मलीमसं तवर्षभँ स्खलितगतेर्गडेरिव ॥ ४ ॥
अयं सखे शिखिसुत नील नीरधिः विधीयतां विधुतजलस्तवौजसा ।
विभासि किं वरुणभयादिव क्रमं पितुस्त्यंजन्नसदृशभावशीतलः ॥ ५ ॥
स्वविक्रमप्रतिसदृगीक्ष्यतामयं सरित्पतिः शरभ तरङ्गभङ्गुरः ।
निरीक्ष्यते चकितचमूरुकातरं त्वयाऽसकृत्किमपगतस्स्थलीपर्थः ॥ ६ ॥
त्वमुच्यसे सुभटकुलैकचन्द्रमाः त्वयि प्रभुवति च गन्धमादनँ ।
समुल्लसन्भरमिममुद्वहस्व भोः प्रपद्यसे किमनभिजातजिह्मताम् ॥ ७ ॥
त्वमुद्धतं व्रज गज दिग्गजेन्द्रवत्त्विषः क्षरन्मदकपिशाः कपोलयोः ।
च्युतैक्षमावदनपटो निरङ्कुशः कुरु क्षपाचरपुरवीरविद्रवम् ॥ ८ ॥
 
१३१
 
विलोकयन्नरिककुभं न धूषितः कथं त्वमप्यवनिपतेर्वधूपितः ।
 
क्व स क्रमः कपिवर तौर तावकः समस्त्वया समँजनि सीदता बकः ॥ ९॥
नभोम्बुधी निषध निरत्ययाविमौ निरत्यया दिगियमगस्त्यशीलिर्तौ ।
तवोत्क्रुधः क इव स राक्षसाधमः समापयँ व्यसनमिदं नमोऽस्तु ते ॥ १० ॥
 
१. D सौ । २. BD न्नु ३. A तनिष्कि । ४. A कथयति । ५. BDत । ६. BCD धवलधुरां ।
७. B भा । ८. BD स्स ९. ACD मस्सरिप्ततिः । १०. D नः । ११. CB तं । १२. BCD व ।
१३ BC वाम् D दम् । १४. BCD जात । १५ CD त्वया यद । १६. BC ताः । १७. A प्यतो ।