This page has not been fully proofread.

समुद्रलङ्घनोत्साहितहनुमत्स्तुतिवर्णनो नाम
 
तद्वाक्यमोमिति पुरन्दरमृनुमूनो: न्यूनातिरेकरहितं मुदितोऽनुमान्य ।
आश्लिष्य तुल्यवयसं भृशमृक्षराजमापृच्छ्य स प्लवगवर्गमगात्मकामम् ॥११९॥
इत्याभिनन्दकृतौ रामचरिते महाकाव्ये संपातिसमागमो
नाम चतुर्दशः सर्गः समाप्तः ॥
 
'किं शीधुभिः भवतु फाणितशर्कराद्यैः
किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्ध सुधयाऽपि न किञ्चिदेव
यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
पालान्वयांबुजवनैकविरोचनाय
तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिः
येनामरत्वपदवीं गमितोऽभिनन्दः ॥
 
१CE read this. २ D E read this.