This page has not been fully proofread.

१९८
 
संपातिसमागमो नाम
 
अस्ति त्रिककुन्महीभृतोऽङ्के लङ्केति त्रिजगद्विलक्षणा पूः ।
यामुत्तरदिक्पतेर्निकामं निर्मायोपनिनाय विश्वकर्मा ॥ ९५ ॥
आक्रम्य बलेन तामिदानीमध्यास्ते रजनीचरैकवीरः ।
ऌनैस्वमुखारविन्दराजीपूजावर्जितबालचन्द्रमौलिः । ९६ ॥
रम्भाकमितुः कुबेरसूनोः शापान्मुक्तहठग्रहेण तेन ।
तत्रैव निवेशिताऽस्ति ताताः सीतेति ज्वलतः शिखाऽनलस्य ॥ ९७ ॥
 
शैलादित ईयते सुवेलं यः शाखात इव प्लुतेन शाखाम् ।
सोऽद्यैव मनोरथेन तुल्यं तामालोक्य निवर्तते कपीन्द्राः ॥ ९८ ॥
 
लङ्केन्यमयं क्षपाचरेशः सीतेयं सुदती सुदुःखमास्ते ।
अद्याप्यहमग्रतो निरीक्षे लक्षेणान्तरितानि योजनानाम् ॥ ९९ ॥
 
इत्युक्तिसमानकालमासीत् पक्षाभ्यां स खगाग्रणी: समग्रः
जाग्रत्यवधिं प्रतीक्षमाणाः सिद्धानां न विसंवदन्ति वाचः ॥ १०० ॥
 
तस्याभ्युदयेन तेन तेने कोप्युच्चैः प्रमदः प्लवङ्गन्मेषु ।
विश्रान्तमिवाथ मनिरे ते दैवस्य प्रतिकूलताधिकारम् ॥ १०१ ॥
 
शुष्यहृढदेहकाण्डशेपः सोऽकस्म/दुपजातपत्रजातः ।
पक्षीन्द्र महातरुश्चिरेण व्याचक्रे निजकामकुमलानि ॥ १०२ ॥
 
आरोहत मामितः कुमारास्तत्राद्यैव नयामि वः क्षणेन ।
आस्ते तदयोगरुद्धमर्धं वैदेहीति रघूहस्य यत्र ॥ १०३ ॥
सर्वेऽपि शकुन्तराजकेतोस्तेजोभिछुरिताः स्थ रामनाम्नः ।
युष्मानहमुहामि तातास्तातस्य प्रलघूकरोमि भारम् ॥ १०४ ॥
आध्वं सुखमत्र वाऽहमेकः पर्यस्य क्षणदाचरान् क्षणेन ।
आदाय वधूमुपैमि युष्मास्वानृण्यं यदि मे भवत्यनेन ॥ १०५ ॥
 
दूरं मम न प्लवङ्गवीराः सन्नद्धस्य चराचरेऽस्ति किञ्चित् ।
संपातिरहं पुनर्नवत्वं नीतो वः कपयः समागमेन ॥ १०६ ॥
 
१. A स्मेर २ A रोधि ३. BD बन्ध ४. AC स्मिन् ।