रामचरितम् /159
This page has not been fully proofread.
चतुर्वंशः सर्गः ।
किं वः कथयामि वानरेन्द्राः सीताक्रन्दतरङ्गन्गद्गदस्य ।
मुक्तर्जुपथः कथंचिदेव भ्रष्टश्चञ्चुपुटात्स मे दुरात्मा ॥ ८३ ॥
यावन्त्रिपतामि निष्प्रयत्नः प्रस्थेऽस्मिन्नचलस्य रहसोऽन्ते ।
तावत्स पुरीं सपुष्पकञ्च प्राप्तोऽभूत्तरसा निशाचरेन्द्रः ॥ ८४ ॥
अन्वस्य न सामिषः सुपार्श्वः प्राप्तोऽभूच्छ्रमकर्शितः कुतोऽपि ।
उक्तः स मया बुभुक्षितेन क्वासी: शून्य किमाहृतं त्वया मे ॥ ८५ ॥
पङ्गोर्जरतः क्षुधातुरस्य त्वन्मार्ग मम पश्यतोऽनिमेषम् ।
को मे निकटस्त्वयेक्षितोऽभूद्यत्रासावहमद्य विस्मृतस्ते ॥ ८६ ॥
जानेऽवरजस्य न प्रवृत्तिं त्वन्माताऽन्तरितैष पक्षसादः ।
त्वं चेद्भवसि श्लथः कथान्तं यातस्ते जनकोऽयमेकदिक्कः ॥ ८७ ॥
3
इत्यूचिषि मय्यधे।मुखोऽभूदुद्भीतिः शनकैर्जगाद चैवम् ।
एक: करुणाहतस्य तात क्षन्तव्योऽद्यतनो ममापराधः ॥ ८८ ॥
दृष्टोऽय मया महेन्द्रशङ्गादात्तार्तममदामिपो दशास्यः ।
लङ्कामभि संपतन् पुरीं स्वां साया तरसाऽभिहन्यमानः ॥ ८९ ॥
आहारकृते ततो दवीयान् सोऽत्यर्थे जविना मयाऽनुवद्धः ।
मुक्तो मुखगोचराच्चं पश्चात्पापात्मा कृपणानि भाषमाणः ॥ ९० ॥
जाने पिशितं च कातराणां दुष्कालेऽपि न रोचते भवद्भयः ।
तेनार्द्रघृणाक्षितेन र्वैः स्यादित्यस्तः स मया विदूर एव ॥ ९१ ॥
आदाय तमापतामि सद्यः क्षुद्वेगाद्यदि वः स्थितिर्न गुर्वी ।
लङ्केन्यमितो ममास्ति कृत्स्ना चञ्च्चग्रे गहनं न किंचिदत्र ॥ ९२ ॥
इत्युक्तनिजापदानसारः साधूक्तः स मया निवारितश्च ।
आयासभयेन दुर्गभाजस्तस्येहोपनयोग्रमाय भूयः ॥ ९३ ॥
दृष्टो मम दारकेण दस्योस्तस्येत्थं निलयो वलीमुखेन्द्राः ।
गम्यः स च वः परं पुरारे: द्वार्थस्य प्रमथस्य भाषितेन ॥ ९४ ॥
१२७
१. B निशेयम् । C दशेयम् । २. D वि । ३. ABC मसाभिगम्यमानः । ४. D यः । ५. ACD
रे च ६ A घृणेन । B प्यघृणाक्षतेन । ७. D व ।