रामचरितम् /158
This page has not been fully proofread.
१२६
संपातिसमागमो नाम
तत्प्रत्ययरोपितायतास्थो दूरस्थानिह वः प्रतीक्षमाणः ।
उज्झामि न पर्वतप्रपातान्निष्पत्रं निरपत्र : शरीरम् ॥ ७१ ॥
इत्युग्रविपाकमेकपाकः सुँक्षेत्रप्रभवः सुपार्श्वनामा ।
दीप्ताकृतिसाहसी' दिगन्तान् भ्रान्त्वा वर्तयतीह पर्वते माम् ॥ ७२ ॥
तस्यात्र कदाचिदह्नयतीते पन्थानं विकलो विलोकमानः ।
सीतामपहृत्य यान्तमारादद्राक्षं दिवि रक्षसामधीशम् ॥ ७३ ॥
हा राम हरत्ययं हताशस्त्वज्जायां त्वयि दीप्यमान एव ।
किं मां तदसाधुवादरोषाद्दत्वा लक्ष्मण रक्षसे गतोऽसि ॥ ७४ ॥
रक्ष क्षणदाचराद्वधूं स्वां स्वर्गिन्नुत्तरकोसलैकनाथ ।
कस्यापि गतौ वधाय दस्योर्दूरं द्वावपि शीतलौ सुतौ ते ॥ ७५ ॥
एह्येहि स दह्यतां कुरङ्गः क्रूरेण क्षणदाचरेण नीये ।
उक्त्वा परुषाणि लक्ष्मणोऽपि क्षिप्तः क्वाप्युपसृष्टया मयैव ॥ ७६ ॥
किं पश्यत यात लोकपालाः क्षमापालस्य वधूरियं विरौति ।
एतद्विकृताननौघभीमं भूतं भोक्तमुपैति मां गृहीत्वा ॥ ७७ ॥
आशी: फलिता न ते सुमित्रे सीतेयं रजनीचरेण लुप्ता ।
श्वश्रुप्रथमे तवापि तैस्तैस्त्राताऽऽसीन्न वधूटिका तपोभिः ॥ ७८ ॥
रक्षोवदनान रक्षिताऽहं हा सीरध्वज तात किं त्वयाऽपि ।
पाशाः शिथिलीभवन्ति कालान्नोगाढः श्लथते सुतेति बन्धः ॥ ७९ ॥
मातर्मिथिले न वीक्षिताऽसि त्वं देवि त्यजसीव मामयोध्ये ।
लब्धेऽवधिसागरस्य पारे दूरं वैरिणि यत्पुनर्गतासि ॥ ८० ॥
गङ्गे सरयु प्रतीरयोर्वामुत्कण्ठा मम चित्त एव जीर्णा ।
पूर्णोऽवधिरन्यथाऽवतीर्णस्तीर्णोऽयं व्यसनार्णवो न तावत् ॥ ८१ ॥
इत्यायतमैथिलीविलापव्याक्षिप्तेन मया तदोन्मुखेन ।
त्राणार्थमवीक्षितात्मनोच्चैः खे दत्तानि क्रियन्तिचित् प्लुतानि ॥ ८२ ॥
१. A त्य २. A स्व ३. ACD दृप्ताहतिसाहसो ४, A का ५ BC यं । ६.A रक्षो ७. A साचे
८. BCब्धा ।