This page has not been fully proofread.

चतुर्दशः सर्गः ।
 
किं भूरिभिरीरितैः कपीन्द्राः सुव्यक्तं भगवान् मया स दृष्टः ।
दृष्टः स च तात्पूर्वजन्मा पूर्वाङ्ग प्रविभक्तिमद्दधानः ॥ ५९ ॥
 
एषोऽहमहिद्विषस्तनूजः संपातिर्निपतामि पादयोस्ते ।
भ्राता मम लम्बितो जटायुस्तस्यापि प्रणतिं गृहाण गुर्वीम् ॥ ६० ॥
तस्मिन्नि॑िति वादिनस्तदानीमंशूनां दहता कदम्बकेन ।
अव्याकृतसंभ्रमस्य पक्षात्रक्षेपं मम तूलवत् मपन्नौ ॥ ६१ ॥
 
श्रद्धारभसेन यावदूर्ध्व गन्तव्यायै मनः करोमि भूयः ।
तावन्निपताम्यधः पतत्रव्याघाताद्विहितस्य नास्ति विघ्नः ॥ ६२ ॥
 
हा हेत्यकरोद्गुरुर्गिरैव व्यग्रत्वादवधीर्य मामयासीत् ।
तेषां क्व सुतादिरात्मवर्गः स्वाम्यर्थः सुमहान् प्रतिश्रुतो यैः ॥ ६३ ॥
 
तापः खलदुष्पलापजन्मा सद्गोष्ठयामिव सान्त्वशीतलायाम् ।
सोऽग्निः प्रशशाम सोमवीथ्यां निस्थाम्नः पततो ममाङ्गकेषु ॥ ६४ ॥
यावच्च क्लामि लब्धसंज्ञः किं पश्यामि न दृश्यते जटायुः ।
निर्वाणबहिर्घृणैस्तदान्तः सन्दीप्तो मम तद्वियोगवह्निः ॥ ६५ ॥
 
व्यक्तं न तदा मयाऽनुजस्य ज्ञाताऽऽसीद्वत काचन प्रवृत्तिः ।
तस्योष्णनिवारणाय पक्षौ विस्तार्योपरि दूरतः स्थितोऽहम् ॥ ६६ ॥
 
१२५
 
तेनावरजन्मना वियुक्तः पक्षाभ्याञ्च विनाकृतस्तदानीम् ।
व्योम्नोऽनवलम्बनात् कुमारा: क्रूरेऽस्मिन् पतितोऽस्मि विन्ध्यमूनि ॥ ६७ ॥
रुद्धोऽस्मि गिराऽऽर्द्रयाऽद्रिशृङ्गान्मुञ्चन् स्वं मुनिना निशाकरेण ।
पक्षीन्द्र विषह्यतामनेहा पक्षाभ्यां भवितासि चेत्समग्रः ॥ ६८ ॥
 
रामः पितुराज्ञयैतदेष्यत्यैक्ष्वाको वनमात्मना तृतीयः ।
 
स्वं धाम ततश्च यास्यति द्राक् तद्दारानपहृत्य राक्षसेन्द्रः ॥ ६९ ॥
ख्याताऽसि तयोर्द्वयोः प्रवृत्तिं प्राप्तेभ्योऽभिमुखं यदा कपिभ्यः ।
तर्हि द्वितयं पतत्रयोस्ते विध्वस्तं पुनरुद्गमिष्यतीति ॥ ७० ॥
 
१, BC वाल २ BC न्न । ३ B व्योर्ज C व्येच ४ A च । ५ BCण ।