रामचरितम् /155
This page has not been fully proofread.
चतुर्दशः सर्गः ।
आवां विहगान्वयावतारे तारेयप्रमुखाः प्लवङ्गवीराः ।
*यैन्यामजनिष्वहि प्रवीरौ धीरौ दुष्पधनोदुरौ सुपर्णात् ॥ ३६॥
दक्षः स पिताऽऽवयोर्जनन्यास्तातस्य प्रभवश्व कश्यपो नौ ।
वृद्धप्रपितामहो मरीचिः सोऽस्माकं कमलोद्भवः कुलादिः ॥ ३७ ॥
पृष्ठं परिरक्षता मयैव प्रष्ठत्वं भजता जटायुषैत्र ।
विस्रब्धमनीकिनीसमग्रान् सङ्ग्रामेष्ववधीषा विपक्षान् ॥ ३८ ॥
दृष्टौ नवयौवनावलेपात् मेङ्खन्तौ गगने मरुद्भिरावाम् ।
जन्मस्थितिपूजितावुमायाः प्राक् पक्षव्यसनागमादिवाद्री ॥ ३९ ॥
पक्षानिलदूरविद्रुताभिः स्कन्धाग्रेषु नभस्वतां चरन्तौ ।
वैमानिकपङ्किभिर्विहायःपर्यन्तोपगताभिरीक्षितौ स्वः ॥ ४० ॥
क्षुण्णा घनसंहतिग्रहोघः प्रध्वस्तो विधुतं ध्रुवद्वयं च ।
कोऽसौ शिशुतानिरङ्कुशाभ्यामावाभ्यां न जितो नभस्तले यः ॥ ४१ ॥
वत्सेन मया च खं भजद्भयामन्योन्यस्य जिगीषया दवीयः ।
दृष्टेयमुदग्रपर्वताऽऽसीदुद्धीजाम्बुजकर्णिकोपमा भूः ॥ ४२ ॥
अव्याहतिवर्धमानवेगप्रागल्भ्यौ पितृगन्धगौरवेण ।
आवामुपसंग्रहाय पङ्गोः पातङ्गं रथमेकदोपसन्नौ ॥ ४३ ॥
तेऽथ प्रवहावरोधरोषव्यावल्गद्विकटाकृतेः पुरो मे ।
हेषाकुलमद्रवन्मुहूर्तं राहुत्रासतरङ्गितस्तुरङ्गाः ॥ ४४ ॥
उल्लङ्घन्य रवेरहं हयालीमालीनस्तरलस्य मूर्ध्नि केतोः ।
द्रष्टुं प्रचयं मरीचिवीचिच्छन्नानामभितः परिच्छदानाम् ॥ ४५ ॥
हैमः स रथो महाप्रमाणः तद्वयोर्मध्वजमूर्ध्नि कौरविन्दम् ।
ते योक्तफणाभृतो विनीतास्तत्पञ्चारमसङ्ग मेकचक्रम् ॥ ४६ ॥
त्रय्याः स्फुटवैभवं तदोजस्तत्साक्ष्यं जगतः शुभाशुभेषु ।
द्वाराणि च तानि तानि सिद्धेः सोऽध्वा च प्रगुणो गुणातिगानाम् ॥ ४७ ॥
१, A द्रप्रथनो २. A व ३. B वेग ४. BCण ५. Aच्छि । ६. BC सद्वा । ७ BC द्यम् ।