रामचरितम् /154
This page has not been fully proofread.
१२९
संपातिसमागमो नार्म
एवं विवृतात्मधैर्यपारं नीराणां निधिरेष दूरपारः ।
व्यक्तं हसतीव चन्द्रेगौरैरन्योन्यस्खलितैर्महोर्मिभिस्त्वाम् ॥ २४ ॥
उत्तिष्ठ कुलोचितं कुरुष्व स्वाजीवं भज वासरोऽल्पशेषः ।
वृद्धो विकलश्चयुतानुबन्धैः शोकार्तेः क इव त्वमायतायाः ॥ २५ ॥
एते वयमस्य ते भुजिष्या विस्रब्धं ननु शाधि यद्विधेयम् ।
रामो हि तवानुजे जटायुष्याधत्ते पितृगौरवं गुरुः ॥ २६ ॥
स्निग्धानिति शोकवेगदीनो दाक्षिण्यक्षणनिर्जितप्रमीलः ।
संपातिरुवाच कम्पमानो निष्कम्पोचितभाषिणः कपीन्द्रान् ॥ २७ ॥
तातौः क्षिपताप्सु मामितोऽराने मयि यद्यनुग्रहोऽस्ति ।
एषोऽम्बु कनीयसे ददामि प्रीतोऽस्तु क्रमलङ्घनात्कृतान्तः ॥ २८ ॥
शौचानुपदं भवत्सु वत्साः ख्यातव्यं बहु मेऽस्ति निर्वृणुध्वम् ।
दृष्टः स मया समैथिलीकः पौलस्त्यो निपतन्नितस्त्रिकूटम् ॥ २९ ॥
इत्युक्तिनिमीलितं प्लवङ्गाः प्रत्यङ्गं जगृहुस्तमभ्युपेत्य ।
निन्युः सलिलं शनैर्विनीतास्तेनोष्णं श्वसता सहापि सस्नुः ॥ ३० ॥
चञ्च्चैव कथंचिदक्षमत्वात्पक्षत्योस्तमपः प्रदाय गूढम् ।
प्रक्लिन्नगुरुच्छदं प्लवङ्गाः तस्थुर्भुजपञ्जरे निधाय ॥ ३१ ॥
तस्थुः क्षणमुत्थिताः समेत्य व्याचक्रुविंशदा हरस्य गाथा: ।
विन्ध्याग्रचयातपे निषेदुर्गृध्रेन्द्रं परिवार्य वानरेन्द्राः ॥ ३२ ॥
जित्वा स जितेन्द्रियः कथंचित्कल्लोलं तमुदीर्णमात्मनैव ।
विश्राणितसुप्रवृत्तिलाभप्रत्याशानवदत्प्लवङ्गमेन्द्रान् ॥ ३३ ॥
वेगोऽयमनादिमोहजन्मा तत्वज्ञैरपि जीयते न वत्साः ।
गच्छन् पुनरेवमेव कालः शो कोर्मीनुदितान्मृदूकरोति ॥ ३४ ॥
दत्तोऽयमुरस्युरुः कवाटः क्वेदानीमसवो मम व्रजन्ति ।
धीरं शृणुत प्रवृत्तिमार्याः कार्याण्येव गुरूणि पण्डितानाम् ॥ ३५ ॥
१. A चूर्ण । २. A वलंबः ३. A श्रान्ताः ४. BD पसत्रः । ५. B रह