This page has not been fully proofread.

चतुर्दशः सर्गः ।
 
सुभ्रातुरथ स्मरन् जटायोः संपातिर्विललाप चेष्टमानः ।
चक्रन्दुरनन्तरं प्लवङ्गाः संक्रामी प्रमुखे हि शोकवेगः ॥ १२ ॥
शून्ये सुचिरं रुदत्सु रोधस्यम्भोधेः समवेदनेषु तेषु ।
विन्ध्याद्रिरपि स्फुटं रुरोद द्रोणीषु प्रतिविम्बितार्तनादः ॥ १३ ॥
भिन्नः परिदेवितेन तेषां तेनारान्मकरालयोऽप्यरोदीत् ।
वेलाङ्कविकीर्णशीकराश्रुः स्थूलोर्मिस्खलनस्वनच्छलेन ॥ १४ ॥
 
आरादपि सत्वैरा न चेरुश्चक्रन्दुर्विहगाः कुलायभाजः ।
तेनार्तरवेण तोयमध्यादुत्कर्णास्तिमयः समीपमीयुः ॥ १५ ॥
ऊचुः प्लवगास्तमार्द्रवाचः शोच्यस्ते न स पुण्यकृत्कनीयान् ।
स्थाने हुतजीवितेन येन त्रैलोक्यं धवलीकृतं यशोभिः ॥ १६ ॥
संसारगतिः स्थितेयमार्य प्राज्ञोऽसौ विमृशत्यनित्यतां यः ।
क्रीणन्ति कलेवरैरनित्यैर्ये नित्यानि यशांसि ते विदग्धाः ॥ १७ ॥
आश्चर्यनिधिः स शौर्यशाली श्लाघायाः परमास्पदं न कस्य ।
छिन्नेऽपि जगाम पक्षयुग्मे पक्षीन्द्रस्त्रिदिवस्य योऽतिथित्वम् ॥ १८ ॥
भ्राता तव गीयतेऽप्सरोभिः पीठाधं शतयज्वनोऽधिरूढः ।
आर्द्रेण तदध्वनाऽऽशु यत्नः प्रस्थातुं प्रयतात्मनामयं नः ॥ १९ ॥
गच्छन्ति गतिं त एव शुक्लामक्लीवं परकारणेन याति ।
येषां तनुरित्यनादिमायामेघालवितता विकल्पकाली ॥ २० ॥
 
कस्यात्र च रुद्यते गतः कः कायोऽयं परमाणवोऽनपायाः ।
संस्थानविशेषनाशजन्मा शोकश्चेन्न कदापि मोदितव्यम् ॥ २१ ॥
 
धीमाननुजः स ते जटायुर्निर्बुद्धेरिव कस्तवैष मोहः ।
तुल्यप्रभयोः प्रदीपयो: स्यात् किं ध्वान्तप्रसवी कदाचिदेकः ॥ २२ ॥
सौ सुमहात्मनामुदन्वानौपम्यं लभते भवद्विधानाम् ।
धैर्योदकशोषकृत् किमेवं संवेगो बत शोकबाडवाग्नेः ॥ २३ ॥
 
१. A संव । २. A रे ३. BC भूमिं ४. A मोहा ।
१६
 
१२१