रामचरितम् /152
This page has not been fully proofread.
१२०
संपातिसमागमो नाम
अथ चतुर्दशः सर्गः ॥
अप्राकृतविग्रहं विहङ्गं तं वक्ष्यि प्रमुदः प्लवङ्गमास्ते ।
श्रोष्यन्त इवेप्सितां प्रवृत्तिं प्रत्येकं प्रतिभाबलादवोचन ॥ १ ॥
विज्ञातनिशाचरप्रवृत्तिः प्रत्यक्षीकृतमैथिलीरहस्यः ।
रामस्य किमेष पुण्यराशिर्वक्तुं नः प्रियमादरादुपैति ॥ २ ॥
एष प्रसहोऽथ पार्वतीयः सामुद्रः प्रतुदोऽथ किं महीयान् ।
द्वीपान्तरविष्किरः कुमारीखण्डाध्वक्रमनिस्सहोऽथवाऽयम् ॥ ३ ॥
भ्रष्टोऽथ नभस्तलादनूरुः पातालादुरगारिरुद्गतो वा ।
आहोस्विदुपैति नस्त्वरावानातु विहगाकृतिः कृतान्तः ॥ ४ ॥
धन्या वयमद्य रामहेतोर्भ्रान्तोवींवलयान्व्यलीकभाजः ।
इच्छासमकालमेति खेलः कालवेत्कबलोत्सुकोऽयमस्मान् ॥ ५ ॥
किं प्रस्खलतीव सन्नचञ्चुः किं वायं न खगः खमभ्युपैति ।
लूनौ वा नियतं शठेन पक्षावस्यापि क्षणदाचरेण तेन ॥ ६ ॥
चक्रे शकलत्रयं जटायुदैवेनैव दशास्यता गतेन ।
पञ्चत्वजुषोऽभवद्द्विजातेस्तस्यैक्यं तु शतक्रतुस्तदानीम् ॥ ७ ॥
एकः स परं प्रपन्नधीरो धारावर्त्मनि येन चन्द्रहासे ।
गणितो रघुनाथपक्षपातादात्मीयः स महान्न पक्षपातः ॥ ८ ॥
वाक्यं कटु तत्प्लवङ्गमानां विश्रान्तं श्रवणपये ( श्रवणे) विहङ्गमस्य ।
क्रूरारवडम्बरानलार्चिर्मेघानामिव कन्दरेऽचलस्य ॥ ९ ॥
पप्रच्छ ससंभ्रमः स पक्षी संपातिः समुपेत्य वानरेन्द्रान् ।
के यूयमुदीरितं ममेदं किं वत्सस्य जटायुषो भवद्भिः ॥ १० ॥
उक्तमचयाः प्लवङ्गमास्ते संन्यस्ताः सिषिचुः शुचाऽभिभूतम् ।
हा भ्रातरिति प्रपन्नमूर्छ पुच्छाग्रोपहितैः समुद्रतोयैः ॥ ११ ॥
१BC नु २ B रश्व ३ BC ।