This page has not been fully proofread.

त्रयोदशः सर्गः ।
 
अतिक्रान्तः कालः परिकलितमिष्टं न किमपि
प्रभोरग्रेऽस्माभिः किमिव गदितव्यं प्रतिगतैः ।
इतो गन्तव्यं स्यात् किमपरमपारोऽयमुदधिः
मुधैवोन्नद्धानामुचितमिह नः प्रायभजैनम् ॥ ८३ ॥
 
भरं धिक्काराणामसुविरहभीरुर्विषहते
सहन्ते नावर्ण तनुमपि तनुत्यागरभसाः ।
इति प्रत्येकं ते विपुलवचसो वानरभटाः
 
तटे पत्युर्वारामनशनविधानेन विविशुः ॥ ८४ ॥
तथापि प्रत्याशास्तिँमितनयनाः पुण्यविसरं
 
पुरः पुञ्जीभूतं निजमिव निमित्तैः पिशुनितम् ।
विहङ्गं विन्ध्यारुपरि हरयस्तेऽथ ददृशुः
शररीरमाग्भारस्थगित गगनाभोगमनघाः॥ ८५ ॥
स नाम्ना संपातिर्विहगपतिरिन्द्रप्रियसखः
खरांशोरुत्सङ्गादधिगतपतत्रव्यतिकरः ।
तदानीं दीर्घास्यो जडित इव नीडाद्रिनिकटां
तटीमब्धेः पद्भयामभजत जटायोः प्रथमजः ॥ ८६ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये बिलनिर्गमसंपातिदर्शनो नाम
त्रयोदशः सर्गः समाप्तः ॥
 
यैया कयाऽपि कलया यस्य तस्य सुभाषितैः ।
गृह्यते हारवर्षस्य मनोऽद्य नृपतेः परम् ॥
किं शीधुभिर्भवतु फाणितशर्कराद्यैः
किंवा सुधासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयाऽपि न किञ्चिदेव
 
यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
 
१ BC कायपत । २ BC नि ३ BC Read these two slokas.