This page has not been fully proofread.

त्रयोदशः सर्गः ।
 
क बिलं क्व च साऽमरावती क स दैत्यापशदः क देवराट् ।
असहे समवेहि बन्धुभिर्विमतिये॑तु कथञ्चिदागता ॥ ५९ ॥
कथयामि सखीगतं रहः किमिदानीं त्वाय न क्षणादहम् ।
न रुणद्धि रघूद्वहस्य चेत्करणीयं प्रथमप्रतिश्रुतम् ॥ ६० ॥
विततव्रतनिस्सहे मया घटितोच्चैः सुचिरेण हेमया ।
त्रिदशानतिरूढदानवग्रहदूरीकृतसंमदानव ॥ ६१ ॥
बहुना किमुदीरितेन वा रघुनाथः समुपैतु सीतया ।
त्वमपि स्वपदाप्तिहृष्टया घटसे निष्फलतापसी तया ॥ ६२ ॥
 
नियतं न मुखानि वीक्षते तिसृणां तत्त्वविशारदो दिशाम् ।
ककुंभं तु विलोकयत्यमूं स वृथा संमितमत्प्रथः प्रभुः ॥ ६३ ॥
अधुनैव गतः श्रमोऽथवा पृतनेशः प्रकृतं करिष्यति ।
ऋजुनिर्गममार्गदेशनादिह नः स्याः परमोपकारिणी ॥ ६४ ॥
अथ मारुतसूनुसूनृतप्रमनाः प्रत्यवदत्तपस्विनी ।
घनबन्धुवधूरिव श्रुतप्रथमाम्भोधरधीरनिस्वना ॥ ६५ ॥
 
इयमुक्तिरियं द्युतिस्तनोर्विनयश्चायमयं च विक्रमः ।
विवृणोति भवन्तमागतं कपिवेषात्कमपीह दिक्पतिम् ॥ ६६ ।
 
अधिलक्षणतेयमाकृतेः प्रभुशक्तेश्च समग्रतेशी ।
मम दृष्टचरी पुरन्दरे युवराजे भवताममुत्र च ॥ ६७ ॥
ध्रुवमाशु भवद्भिरीदृशैर्जगदर्थः सुमहान् करिष्यते ।
दशकण्ठवधाय दण्डकां विधिनैवामितो रघूहः ॥ ६८ ॥
प्रयतध्वमकालहापनात् कपयः संज्ञेपनाय रक्षसः ।
 
स चिरादुपहासरोषितः प्रमथोऽस्तु प्लवगाकृतिः कृती ॥ ६९ ॥
विरमन्तु विरूपलोचने वरैदृष्टिष्वविचारितार्थनि ।
दशवक्त्रविलुप्तसंपदां परिवादा: सुरमर्त्यभोगिनाम् ॥ ७० ॥
 
१ C तेजसां २ Dक्ष । ३ C चर ।
 
११७