This page has not been fully proofread.

बिलनिर्गमसंपातिदर्शनो नाम
 
रसवन्ति रसातलोद्भवाः चकरुर्भक्ष्यशतानि शाखिनः ।
सह काञ्चनमञ्जिकाशतै : मणिपात्रेषु निवेशितानि ते ॥ ४७ ॥
परिवेषयति स्म सादरं हरिवीरानथ भक्ष्यजातिभिः ।
समभोजयदङ्गदं चिरादनुभावस्तिमितं तपस्विनी ॥ ४८ ॥
उदिताधिकवीर्यपुष्टयो जहूपुस्तरक्षणविस्मृतश्रमाः ।
पुनरूढनवत्वसंपदः कपयस्तेन रसायनेन ते ॥ ४९ ॥
 
अभिकाममथांशितम्भवैर्विहितात्मस्थितयः प्लवङ्गमाः ।
अभजन्त कशाहता इव स्मृतयात्रावधयश्च सत्क्रियाम् ॥ ५० ॥
 
बलवद्विनिवर्तितत्वरास्त्वरितक्षालितवक्तूपाणयः ।
ददृशुः कपयः स्वयंप्रभामथ मुञ्चेत्यशकन्न भाषितुम् ॥ ५१ ॥
इति तामवदत्स मारुतिर्भवति स्वस्ति तपोऽभिवर्धताम् ।
अयमत्युपचारलज्जितः परवानिच्छति गन्तुमङ्गदः ॥ ५२ ॥
रघुनाथवधूर्न चेक्षिता न स दृष्टो रजनीचराधमः ।
निजवृत्तिगवेषणादृतैर्गमितोऽस्माभिरिहैव सोऽवधिः ॥ ५३ ॥
 
अवलोक्य महीं महौजसो विनिवृत्ता विनतादयः स्फुटम् ।
अनिमित्तविलम्बिभिः प्रभौ बत वाच्यं किमिवास्मदादिभिः ॥ ५४ ॥
वद वर्त्म बिलोदरादितो वयमन्धा इव दिग्भ्रमादमी ।
उपनीय यथापथॅस्थितीननघे तारय नश्चिरातिथीन् ॥ ५५ ॥
 
उपचौरपरम्परामिमामसक्रुद्वक्तूशतेन तावकीम् ।
कथयन्त्यचिरादसंशयं कपयः कारणमानुषे हरौ ॥ ५६ ॥
 
स करिष्यति लोकभावनस्तव निस्तारमितो महाबिलात् ।
त्यज दानवगृह्यतामिमां मरुतामप्सरसः परिग्रहः ॥ ५७ ॥
ध्रुवम स विस्मृतो मयस्तव संख्या सुरसख्यपूतया ।
किमकारणमत्र सीदसि स्मर वामाक्षि विमानमात्मनः ॥ ५८
१ A तांगतैः । २ D बिलर्धिनिष्प्रभै । ३ A तयथाय । ४ CD का ।