This page has not been fully proofread.

त्रयोदशः सर्गः ।
 
वरमित्थमिदं गतं वयो वरमाप्तो विरहः सलोहितैः ।
प्रतताश्रुमुखी मयेक्षिता सुचिरान्नत्वकृतार्थया सखी ॥ ३५ ॥
करुणैरुपरुध्यसे चिरं किमथ स्वात्मदशानिवेदनैः ।
वदतीब पथः कदर्थनामिदमार्यस्य सुखोचितं वपुः ॥ ३६॥
अतिथे परिगृह्यतामियं समवस्थासदृशी ममार्हणा ।
महतामनुरोधशालिता विषमस्थे हि जनेऽतिरिच्यते ॥ ३७ ॥
 
उपयुङ्क्ष्व यथासुखं पयः फलमादत्स्व यदत्र वाञ्छसि ।
मम दृष्टिपथे मनोरथैरतिथीनामिह न व्यतीयते ॥ ३८ ॥
 
पदवीमृजुमादिशाम्यहं श्रममुत्सृज्य निवर्त्यतामितः ।
बहुमायमिदं विगाह्यते न जनैरार्जवशालिभिर्बिलम् ॥ ३९ ॥
 
इति भूतमुदीर्य सा चिराद्विररामानिलिराददे वचः ।
स्थितगृष्टिरवो हि शोभते शिखरी सङ्गलदोघशब्दभाक् ॥ ४० ॥
 
क्षणमस्त्वयमर्हणाक्रमः क्रमते नश्वरमं चमूपतिः ।
उपचारराविशेषभाजनं स नमस्यो वयमस्य किङ्कराः ॥ ४१ ॥
उपमर्दविकल्पशान्तये कपिसङ्घातसमागमस्य च ।
स्फुटमेव जगाद कारणं प्रगुणे कीदृशमात्मगृहनम् ॥ ४२ ॥
अथ गोपतिपौत्रमङ्गदं पवमानाङ्गजसन्निधापितम् ।
कपिसैन्यसमग्रमग्रहीदुपचारैर्गुरुभिः स्वयंप्रभा ॥ ४३ ॥
 
अवलोक्य बुभुक्षितान् कपीन् कपिभोज्यान्नविशेषदृष्टये ।
बिलकल्पतरून चोदयत्प्रणिधानस्तिमितेन चेतसा ॥ ४४ ॥
 
अभजन् प्रथमं तमम्बुभिः प्लवगश्रोत्रियसङ्घमङ्घ्रिपाः ।
प्रतिकोटरकोटिनिष्पतन्माणिवैसारिणवक्तूवर्त्मभिः ॥ ४५ ॥
 
पतितेषु निषेदुरादृतः पृतनाधीशमतेन तेऽनघाः ।
परिणामिषु पीठशोभया फलरत्नेषु बिलक्षमारुहाम् ॥ ४६ ॥
 
१D मङ्गलदोषश २ BCD त्मना ।