रामचरितम् /146
This page has not been fully proofread.
बिलनिर्गम संपातिदर्शनो नाम
अकरोदसकृत्प्रसादवानपि निर्वर्णितवारवासरः ।
मम नृत्यकलाविदग्धतां मघवा नेत्रसहस्रसाक्षिणीम् ॥ २३ ॥
परिगृह्य विशेषमस्तुवन्निपुणे पश्यति नाकिनां गणे ।
लयरीतिषु रेचकोत्तरं गुरवश्चित्ररथादयश्च ते ॥ २४ ॥
श्रुतवानसि कच्चिदूर्जितं मयनामानमरिं दिवौकसाम् ।
जुहुवे शरजातवेदसि त्रितयं यस्य पुरां पिनाकिना ॥ २५ ॥
परिगृह्य सखीं ममानंघामथ हेमां नेष्वनास्पदः ।
अधिवस्तुमलक्षितं परैः बिलमेतन्मतिमान्विनिर्ममे ॥ २६ ॥
न पुरत्रयमस्मरद्वसन्निह विज्ञानकलामये मयः ।
न च कैरपि सूचितोऽभवन्नियतिं नातिजगाम केवलम् ॥ २७ ॥
पितुरुत्सविनो निमन्त्रणाद्यदगात्तत्सुभगा सुरालयम् ।
अरुणञ्चरसूचितां हि ताममरेन्द्रो निजवारसुन्दरीम् ॥ २८ ॥
महिताऽस्मि मयप्रवृत्तये प्रियसख्याऽहमिहेन्द्रमन्दिरात् ।
भवतेव मयापि निर्जनं बिलमेतत्परमेत्य वीक्षितम् ॥ २९ ॥
माय दूरत एव शंसितं समकालोच्चलितार्तिकाहलैः
पुरंगेहतटाकवीरुधामधिदेवैरधिवासिवैशसम् ॥ ३० ॥
किमवाप्तसमीहितान्तर स्तमिदानीमवशिष्टविग्रहम् ।
अदहद्धगिति स्मरानलो हरबाणानलदग्धविष्टपम् ॥ ३१ ॥
किमगाद्विजयाय वज्रिणो निजमुत्सृज्य बिलं निरर्गलः ।
क्षणमात्रतिरोहितास्तु ते मम न प्रष्टुमिति स्फुटं गताः ॥ ३२ ॥
इहँ यामि लयं मयं चिरात्परिपश्याम्यथवा समागतम् ।
व्रतमात्तमिदं मयोच्चकैरिति हेमाकरुणोपतप्तया ॥ ३३ ॥
प्रियतेऽद्य सखी मदाशया गतवत्यां मयि निर्मनोरथा ।
विषहेत वियोगवेदनां कथमेकान्तकृशा तपस्विनी ॥ ३४ ॥
१. Aलव । २. BC बिलमाच्छाद्य निजं । ३. BC D अथ । ४. C D रणो ।