This page has not been fully proofread.

त्रयोदशः सर्गः ।
 

 
अधि॑िविद्यमतीद्धंवर्णनागुणमुग्धेषु गणेषु नाकिनाम् ।
ख(स)मसूच्यत चित्रलेखया मम मर्मस्पृशि चोदनालवे ॥ १२ ॥
सुरमार्गनदीनिमज्जनैः मयि विद्याधरकन्यकाजनैः ।
गमितः सुगृहीततां मुहुः स महानम्बुनि तुम्बिडम्बरेंः ॥ १३ ॥
ततजातिषु तुम्बुरुर्गुरुः गुरुकल्पः सुषिरेषु नारदः ।
विततेषु विशेषहेतवो मम विश्वावसुपादपांसवः ॥ १४ ॥
 
युगपञ्च युगेन वीणयोः श्रवणैकक्रतुना सुपर्वणाम् ।
प्रथिताऽहमुपेयुषां मुनेः स्वरपारायणपारगामिनः ॥ १५ ॥
श्रुतिर्षु श्रुतनाकनिम्नगासलिलौघक्रमपातनिस्वनः ।
गुरुरश्वतरः फणीश्वरो मम गङ्गाधरकर्णभूषणः ॥ १६ ॥
महतीगुरवो गणेश्वराः स्वरतानक्रमरीतिरैञ्जिताः ।
मम खण्डकपालमूर्च्छनास्वमुचैन्मत्सरैमीशितुः पुरः ॥ १७ ॥
सुरचौरणचक्रवर्तिनां पुरतः सोऽप्यसुरैकसूदनः ।
श्रुतवानिव नारदस्तुतां मम गान्धारविशुद्धमूनाम् ॥ १८ ॥
बहुपर्वसु पर्वतादयः संविवादाः पृथगात्मगौरवात् ।
मयि संप्रतिपत्तिमागमन् गमकग्रन्थिषु गीतिपण्डिताः ॥ १९ ॥
 
उपदिश्य पुरैं: सरस्वतीं सदसि प्रह्वमहार्षिमण्डले ।
अर्थॆ मामुपसेदुषीमशाज्जगदावैर्जनवेदमात्मभूः ॥ २० ॥
सहजातविदग्धकैशिकीरसदिग्धैश्च लसद्भिरङ्गकैः ।
हरवामविभागभागिनी मम लास्यैकगुरुगिरेः सुता ॥ २१ ॥
गिरिशो गिरिजान्तवासिनीत्यधिकौत्सुक्यवलद्विलोचनः ।
गुणमस्तुत मे समं गणैः करणोद्भासितरङ्गमाङ्गिकम् ॥ २२ ॥
 
१. À ति। २. D न्दु । ३ . B र्त । ४. B नो । ५. A ने । ६. A मेनाप्रमुखाभिरालिभिः
 
७. A बिलं विडंबरः । BC निलुम्बिडंबराम् । ८. A कंबलः । ९. Aसु । १० गीत । ११. A सुव । १२.
BC छ । १३. A वा । १४. Bक । १५. B सूक्ति CD गीत । १६. BCD अ । १७, BCD रा ० १८,
BCD धि । १९. A मगात्त्रिदशा । २०. Aमि ।
 
१५