This page has not been fully proofread.

११२
 
बिलनिर्गमसंपातिदर्शनो नाम
 
अथ त्रयोदशः सर्गः ॥
 
अवधूय वधूजनोचितामथ सा तप्तमहातपास्त्रपाम् ।
अतिथि हनुमन्तमब्रवीद्धिलमग्नप्रतिभानपाटवम् ॥ १ ॥
 
इत आस्व विनीयतां क्लृमः किमुदासीन इवार्य तिष्ठसि ।
ननु विश्वसिहि स्वमागतस्त्वमिदानीमिममाश्रमं हि मे ॥ २ ॥
त्यज मोहमहं स्वयंप्रभा रवितेजः प्रभवा नभश्वरी ।
शशिदीधितिसंभवाप्सरःकुलमैत्रीपरिपाटिशीतला ।॥ ३ ॥
मदकलिकला मदालसा मुकुला मेघवती मनोजवा ।
अहमिन्दुमती कलावतीत्यनघाः स्वर्गपतेः करेषवः ॥ ४ ॥
 
वयमप्सरसः परश्शताः शतमन्युप्रभृतीनुपास्महे ।
मरुतः सुकृतात्तुलाधृतादनुरोधाभ्यधिकेन चाटुना ॥ ५॥
द्वितयं द्वितयीभिरस्यति त्रिदिवेश: क्षितिपृष्ठगोचरम् ।
भृशमुद्गतमद्भिरातपं तपसः स्फूर्जथुमस्मदादिभिः ॥ ६ ॥
अपि संमुखसाध्वसद्रुतश्लथनिस्सी (स्थे)मसुं विग्रहेषु नः ।
अति तीव्रतपोबलानरीञ्जयमाशंसति पाकशासनः ॥ ७ ॥
 
चरणेष्वसुरा लुठन्ति नस्त्रिदशाः सन्ति करोदरेषु नः ।
अभिसृत्य रणेषु नः कृते नरवीरास्तृणवत्त्यजन्त्यमुन् ॥ ८ ॥
मयि देवगणा दयालवो मुनयो मय्यनुरोधगद्गदाः ।
कथयन्त्यतिथे गरीयसीं मयि गन्धर्वकुलानि बन्धुताम् ॥ ९ ॥
 
मम सख्यवशंवदोर्वशी मम रम्भेत्यसवो बहिश्वराः ।
सह मे सहजन्यया गँताः कुलविद्यागमकेलिवासराः ॥ १० ॥
लहरी लहरीषु नर्मणामैनघेषु प्रतिकर्मसूर्मिला ।
मदुपात्तवती विदग्धतां रसदिग्धेषु वचस्सु बुद्बुदा ॥ ११॥
 
१. A B C थिनि स्थामनि २. ABCधि । ३. A योग । D इयाग । ४. BCD निर्मला ।
 
.)