This page has not been fully proofread.

द्वादशः सर्गः ।
 
अधिवासधिया महीभृतां' यदि वाऽस्यैव बिलस्य देवता ।
अथ सैव कुपण्डिता पुनर्निजरूपं परिवृत्य निर्गता ॥ ९६ ॥
इति विविधवितर्कचञ्चलं जलकुसुमादिमुखैः सभाजनैः ।
अतिथिमतिविशिष्टमादरादमरवधूरभि तं जगाम सा ॥ ९७ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये स्वयंप्रभादर्शनो
नाम द्वादशः सर्गः समाप्तः ॥
 
नैमः श्रीहारवर्षाय येन हालादनन्तरम् ।
स्वकोशः कविकोशानामावि (र्भावाय संभृतः ॥
किं शीधुभिर्भवतु फाणितशर्कराद्यैः
 
किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयाऽपि न किश्चिदेव
यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
 
१११
 
१. A D सिविपन्मनोहता । २. A reads this only. ३. A शेषाणामा तागमसंपदः । ४
CD read this.