This page has not been fully proofread.

स्वयंप्रभादर्शनो नाम
 
अथ सिद्धवधूं स्वयंप्रभां प्रभवन्तीमभिशङ्कय तत्र सा ।
कपिनागमपास्य तं ययौ करिणी केसरिणीभयादिव ॥ ८४ ॥
 
स्फटिकामगृहादनन्तरं निरगात् कान्तकृशा तपस्विनी ।
ककुभः प्रभयाऽनुलिम्पती शशिलेखेव शरत्पयोधरात् ॥ ८५ ॥
अपि मुक्तसमस्तभूषणैरपि दीर्घव्रतयातनाकृशैः ।
झटिति प्रसभं प्रतिघ्नती दृशमत्युग्रमहोभिरङ्गकैः ॥ ८६ ॥
अतिथीन्दुविलोकनोत्थया शमसिन्धोरिव वेलया दृशा ।
परितः परिषिञ्चती दिशो विशदौदार्यतुषारशीतया ॥ ८७ ॥
तपनांशुरुचस्तपस्विनी वदनस्योपरि चन्द्रचारुणः ।
दधती दृढबन्धिनीर्जटाः शमनुन्ना इव रागवासनाः ॥ ८८ ॥
करकं च करेण बिभ्रती भृतमाकण्ठमघच्छिदामपाम् ।
करुणारसनिर्भरं पृथङ्किजमात्मानमिव व्यवस्थितम् ॥ ८९ ॥
श्रियमप्रतिमां विवृण्वती वपुषः स्रस्तविभूषणावृतेः ।
विरतेऽह्नि विविक्तसैकता सरिदुड्डीनखगेव शारदी ॥ ९० ॥
स्तनबन्धवती नितम्बिनी जपसंख्याम्बुजबी जमालिनी ।
पुनती नयनानि पश्यतां प्रशमश्रीरिव सा शरीरिणी ॥ ९१ ॥
 
किमुडु: स्खलितेयमम्बरादथ विद्येयमविद्ययरिता ।
निभृतं निहिताऽथ नाकिभिर्विधुमुत्पीडयै सुधेयमुत्तमा ॥ ९२ ॥
किमियं करुणा शरीरिणी मुदितेयं यदि वाऽतिनिर्मला ।
पदमाप सुरापमुत्थितैरथ मैत्री मुनिभिर्निवेशिता ॥ ९३ ॥
किमुत स्मरखण्डिता रतिः किमुत श्रीरजितोरसयुता ।
किमुतानघसुन्दरद्युतिर्दयिता दाशरथेरसावियम् ॥ ९४ ॥
किमधः शिवलिङ्गलङ्घनादभिषङ्गात् किमु कस्यचिन्मने ।
इयमत्र विवर्तते बिले विहतव्योमगतिः सुराङ्गना ॥ ९५ ॥
 
१ A वृत्त । २ A वीति । ३ A त्पाद्य ।