रामचरितम् /139
This page has not been fully proofread.
द्वादशः सर्गः ।
समवाहयदूरुमादरादथ निश्शङ्क· मित्राङ्कमभ्यगात् ।
उरसि स्वरसादलम्बयद्वनमालां च विलोलपल्लवाम् ॥ ४८ ॥
विचुचुम्ब बृहविडम्बना मुखमप्राप्तरदेच्छदान्तरम् ।
अभिमृश्य हनूं शनैः शनैरथं पप्रच्छ किणस्य कारणम् ॥ ४९ ॥
सनिदाघजलेन पाणिना परिमार्टि स्म विधूसरा: सटाः ।
अलिखन्नखशालिना पुनर्निजगात्राणि करेण तस्य सा ॥ ५० ॥
न चुकोप न चाकुलोऽभवन्न च विक्षेपकरीं नुनोद ताम् ।
स हि केवलमात्मवान् कपिञ्चपलां चित्तगतिं न्यवारयत् ॥ ५१ ॥
कपियोधयुवानमिर्त्यसौ तमवेत्यात्मसमासु निस्स्पृहम् ।
समपादि समस्तहारिणा करणेन क्षणभावितर्धिना ॥ ५२ ॥
वपुरप्रतिसुन्दरं क्षणात् प्रतिपन्नप्रतिकर्म बिभ्रती ।
विततान विदग्धकामिनीजनयोग्यासु कलासु कौशलम् ॥ ५३ ॥
विकसत्कलिकानुकारिणमिनु लीलां ललितैलतेव सा ।
विरराज विलासपल्लवैः प्लवगं तं प्रति निष्फलैरपि ॥ ५४ ॥
घनविभ्रमभङ्गमालिनी मदपूरप्लुतशीतसैकता ।
नगतुङ्गमनङ्गवाहिनी तमियाय स्खलितोत्सुकेव सा ॥ ५५ ॥
अभिलर्घ्यं ययौ शनैः सभीरभिघातार्थमभीरिवाययौ ।
मृदुभिर्वचनैस्तमुच्चयोः कुचयोरक्षमयत्कठोरताम् ॥ ५६ ॥
अवलम्ब्य लतां निरायतामथ सा संस्तवशालिनीव तम् ।
अवचेतुमयाचताग्रतः कलिकामुत्कलिकाबलात्कृता ॥ ५७ ॥
तमसौ सहकारमञ्जरीमवमन्वानमिवादरार्पिताम् ।
अरुणाग्रदलैरताडयत्तरुणी स्तोकमशोकपल्लवैः ॥ ५८ ॥
स्फुटनाभितला तलोदरी तनुरुच्छ्रासितनिर्मुखस्तनी ।
वलितैकविलोचना बभौ तमभि व्याजविजृम्भितोद्भुजा ॥ ५९ ॥
११७
१ BD मुर । २ A परि । ३ BC चि । ४ BC रान् । BCन् । ६A मध्य । ७AC
हारि । ८ A मृश्य । ९ A चकि ।