This page has not been fully proofread.

१०६
 
स्वयंप्रभा दर्शनो नाम
 
निकषा नवचूतंचम्पकौ बकुलस्कन्धनिविष्टपल्लवा ।
उपतीरमतिष्ठत स्फुटं कनकाशोकलता हनूमते ॥ ३६ ॥
 
अपि तामतिरक्तिशालिनीम लिषिद्गव्रजभग्नजालकाम् ।
परिहृत्य कपिर्ययौ जवादभिजातः प्रमदामिवासतीम् ॥ ३७ ॥
 
लवलीमभिनीतावेक्रियालवलीलामथ न स्म पश्यति ।
महिलामवलोक्य मोहिनीमहिलालामिव मन्यते हि सः ॥ ३८ ॥
 
ब्रुवता पुनरुक्तमग्रतो मधुगन्धिस्तवकाननेन सः ।
धृतमत्तविवर्णकेलिना वकुलेनाकुलतामनीयत ॥ ३९ ॥
विततार्द्ररजोभुजाहितमसभालिङ्गन्नकेलिभिः कपिः ।
मुमुचे मुचुकुन्दयष्टिभिः न स दूरेण विसर्जयन्नपि ॥ ४० ॥
अपि पूर्वमजातसौहृदश्विरसौहार्दवर्शीदिवोद्धुरैः ।
रुषितोपि स रूषितोऽभवन्नवराजीवरजंःकदम्बकैः ॥ ४१ ॥
 
अटवीमटति स्म निष्कर्लं: कलकण्ठीकलनादकोमलाम् ।
पठितव्यपराङ्मुखो वदुः कठवल्लीकठिनां मठीमिव ॥ ४२ ॥
 
"
 
स्मितभिन्नमुखीं च सप्तलामलिकोलाहलिनीं च पाटलाम् ।
स जिगाय विगाढवासने विजितात्मा ममताऽस्मिते इव ॥ ४३ ॥
शनैः ।
 
परिमाणलसत्फलामपि प्रययौ बाधकशङ्कया
अनवाप्य विपाकपाटलं निकटाद्विम्बमुदुम्बराटवीम् ॥ ४४ ॥
निरियाय निरङ्कुशा ततः फलहस्ता वनमालभारिणी ।
तमभि स्मरदूरैनाटिता विकटा वानरवारसुन्दरी ॥ ४५ ॥
ठुतिभिर्लालिताभिरग्रतः प्लवगमाग्रहरस्य तस्य सा ।
चलचम्पकचूतमेखला मखला केलिमनेकमैरयत् ॥ ४६ ॥
 
विततार फलानि संमुखं व्यलिखत्कूर्परमर्पितस्तनी ।
प्रसृतप्रणयेव साऽऽनिलेरलमक्षावलिमक्षिपत्करात् ॥ ४७ ॥
 
१ BC भूय । २ A लो । ३ Aभ । ४ A रसा । ५ Aथ । ६ BC ला । ७ A भीसरति स्म ।