रामचरितम् /136
This page has not been fully proofread.
१०४
स्वयंप्रभादर्शनो नाम
अथ चिन्तयतामनारतं रविवंशाभ्युदयं वनौकसाम् ।
अजनिष्ट शनैः शनैस्तमः तदुषस्तर्जन येव जर्जरम् ॥ १२ ॥
अवजित्य निरङ्कुशं ततः तिमिरं दूरमुपेत्य विस्मिताः ।
ददृशुर्मणिदीपिकान्तरे परिवृत्तं' हरयश्चराचरम् ॥ १३ ॥
बहु तत्तदपूर्वमंद्भुतं सहसाऽऽसाद्य वनौकसामसौ ।
चकितेव चलविलोचना परिचिक्षेप चमूचमूपतिम् ॥ १४ ॥
विनिवेशितवाहिनीपतिः पतति स्मानिलिरग्रतो दिशः ।
अविलोकितनिर्गमां भुवं न हितैषी नयति प्रभुं पुरः ॥ १५ ॥
चतुरन्तचलद्विलोचनो रुचिरे तत्र रसातलान्तरे ।
सं विलोकयति स्म केवलं ललिताभोगमनेकमद्भुतम् ॥ १६ ॥
तरवस्तरुणच्छदा इति प्रतिपन्नाः प्रथमं हनूमता ।
गरुडोपलरश्मिराजयः शिखरालाः स्फुटमन्तिके वभुः ॥ १७ ॥
पवनाङ्गभुवा तरङ्गिणी ददृशे वीतमला विदूरतः ।
स्फटिकालिरुदंशुरन्तिकादभवत्तृतरलस्य तस्य सा ॥ १८ ॥
सुसमे विषमत्वमग्रहीत्पाथ नानाश्ममयूखमोहितः ।
विषमे समबुद्धिरैस्खलद्युतिसन्तानतिरोहितावटे ॥ १९ ॥
मणिभित्तिषु तेन वेश्मनामभिघातस्तरलास्वलभ्यत ।
अपि मुक्तमहांशुमञ्जरीनिचितं द्वारमदर्शि नाग्रतः ॥ २० ॥
विदितं न जलं न च स्थलं कलितं नान्तरमुच्चनीचयोः ।
मणिकुट्टिमभूमिषु भ्रमः प्रततस्तत्र बभूव मारुतेः ॥ २१ ॥
भ्रमति स्म समन्ततः परं निरचैपीन्निपुणं न किञ्चन ।
प्रतिवस्तुविरूढसंशयः स तदात्मन्यपि शङ्कितोऽभवत् ॥ २२ ॥
बहुमोहतरङ्गमालिनीमभितस्तत्र निकामशीतले ।
श्रममाप न संपतन्मुहु॒मृगतृष्णां मृगवाहनन्दनः ॥ २३ ॥
१. Aतिं । २. B C यदुतत्तदुपेत । ३. A भुवः । ४ C D ज । ५. AB भूमि ।