रामचरितम् /135
This page has not been fully proofread.
द्वादशः सर्गः ।
द्वादशः सर्गः ॥
रुचिराहवकर्मतोषितत्रिदशप्रेरितमाल्यमाण्डितः ।
प्रविवेश सह प्लवङ्गमैर्बिलपातालमनर्गलोऽङ्गदः ॥ १ ॥
अभयं वचसाऽङ्गदो ददाववलम्बं वपुषाऽञ्जनासुतः ।
बलमृक्षपतिश्च सान्त्वनैः प्लवगानां गहने निमज्जताम् ॥ २ ॥
स्खलतां चलतां विघूर्णतां गलतां गाढमभिघ्नतां मिथः ।
बिलगर्भतमस्यभूच्चिरं प्लवगानां तैलयानविप्लवः ॥ ३ ॥
अनुदन्ननुजीविनः प्रभूनथ बाला: स्थविरानलङ्घयन् ।
गुरवोऽन्तसदामधोऽभवन्नवकृष्टाः प्रवरान् प्रचिक्षिपुः ॥ ४ ॥
नल जीवसि जीवे जाम्बवन्बलमा श्वासय वालिनन्दन ।
गव गच्छ गवाक्ष देशय द्विविद ध्यायसि मैन्द का गतिः ॥ ५ ॥
प्रसभं चलैतीव कः खलो गलहस्तं बत को ददाति मे ।
युवराज इवायमीयते बलवान् कञ्च विलङ्घ्य वालधिम् ॥ ६ ॥
चल चन्दन गन्धमादन व भवानन्ध इवानुधावति ।
गज गर्जसि किंनु सांप्रतं
क्वासि निषेध संप्लवम् ॥ ७॥
किमयं सुमहान् भुजङ्गमः किमु लाङ्गूलमिदं हनूमतः ।
विटपः स्विदयं सकण्टकः किमथासीदति कौमुदः करः ॥ ८ ॥
लिखतीव नखेन कस्त्रिकं मम कण्डूयति कश्च सक्थिन ।
गवयस्य निगूढनर्मणो नियतं पाणिरयं भविष्यति ॥ ९ ॥
मम मार्गति कोनु वक्षसि प्रणयिन्या इव नित्रपः स्तनौ ।
अयमाननसंमुखश्च कञ्चपलचुम्बितुमिच्छतीव माम् ॥ १० ॥
अवगादुमलं तलं न ते नच निर्गन्तुमलं बिलान्ततः ।
इति केवलमाकुलां गिरं हरिवीराः परितोऽभ्युदीरयन् ॥ ११ ॥
१. Bन । Dव । २. CD नील । ३. A नुद । ४C सक्किणि ।