This page has not been fully proofread.

१०२
 
स्वयंप्रभादर्शनो नाम
 
दुन्दुभयो दिवि दध्वनुरुचे
 
रुच्चभुजाः कपयश्च ववल्गुः ।
सिद्धनिकायकराब्जविमुक्तं
 
माल्यमथाङ्गदमूर्ध्नि पपात ॥ ११६ ॥
 
'दीपः सतां स खलु पालकुलप्रदीपः
 
श्रीहारवर्ष इति येन कविप्रियेण ।
सद्यः प्रसादभरदत्तमहाप्रतिष्ठे
 
निष्ठापितः पिशुनवाक्प्रसरोऽभिनन्दे ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये
एकादशः सर्गः समाप्तः ॥
 
किं शीधुभिर्भवतु फाणितशर्कराद्यैः
किंवा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयाऽपि न किश्चिदेव
यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
 
१, BCD omit this sloka. २. BC Read this after colophou,